________________
शास्त्रवार्ता
1100 11
“मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । मैत्र्यादिवासना राम ! गृहाणाऽमलवासनाः ॥ १ ॥” तत्र वासनालक्षणमिदम्
“दृढभावनया त्यक्तपूर्व परविचारणम् । यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ २ ॥”
।
सा च द्विविधा मलिना, शुद्धा च । तत्र शुद्धा योगशास्त्र संस्कारप्राबल्यात् तत्त्वज्ञानसाधनत्वेनैकरूपाऽपि मैत्र्यादिशब्दैर्विभक्ता । मलिना तु त्रिविधा- लोकवासना, शास्त्र वासना, देहवासना चेति । सर्वे जना यथा न निन्दन्ति तथैवाssचरिष्यामि' इत्यशक्यार्थाभिनिविशो लोकवासना । अस्याश्वाशक्यार्थत्व- पुमर्थानुपयोगित्वाभ्यां मलिनत्वम् । शास्त्रवासना त्रिविधा- पाठव्यसनम्, बहुशास्त्रव्यसनम्, अनुष्ठानव्यसनं चेति । मलिनत्वं चास्याः क्लेशावहत्व-पुमर्थानुपयोगित्व-दर्पहेतुत्वैः देहवासना च त्रिविधा- आत्मत्वभ्रान्तिः गुणाधानभ्रान्तिः दोषापनयन भ्रान्तिश्च । गुणाधानं द्विविधम्- लौकिकं, शास्त्रीयं च । आयं सम्यक्शब्दादिविषय संपादनम्, अन्त्यं गङ्गास्नानादिसंपादनम् । दोषापनयनमप्येवं द्विविधम् । आद्यमौषधेन व्याध्याद्यपनयनम्, अन्त्यं स्नानादिना शौचाद्यपनयनम् । एतन्मालिन्यं चाऽप्रामाणिकत्वात्, अशक्यत्वात्, पुमर्थानुपयोगित्वात्, पुनर्जन्महेतुत्वाच्च । शुद्धवासनया चेयं मलिनवासना क्षीयते, तथाहि सुखिषु मैत्रीं भावयतस्तदीयं सुखं मदीयमेवेति कृत्वा 'सर्व सुखजातीयं मे भूयात्' इति चिन्तात्मिका रागवासना निवर्तते, दुःखिषु करुणां भावयतश्च वैर्यादिनिवृत्या द्वेषवासना १ लौकिक- शास्त्रीय रूपभेदेन ।
Jain Education International
For Private & Personal Use Only
सटीकः ।
|| 06 ||
७० ॥
www.jainelibrary.org