________________
Solaleeoooooooooctore
बबाल
माध्यस्थ्यमेव- अरक्त-द्विष्टत्वमेव, तद्धेतुः- मुक्तिहेतुः, तत्परं- प्रकृष्टम् , क्लेशवासनयाऽक्षोभ्यमिति यावत्, येन कारणेन, अगम्यगमनादिना, साध्यते, गम्यागमनादिषु तुल्यतया प्रवृत्तेः; तेन कारणेन, कश्चन न दोषः । माध्यस्थ्योत्कर्षेण मुक्तेः, तत्साधनतया चागम्यगमनाथुपयोगस्य समर्थनादिति भावः ।। ३२ ।।
__ अत्रोत्तरम्एतदप्युक्तिमात्रं यदगम्यगमनादिषु । तथाप्रवृत्तितो युक्त्या माध्यस्थ्यं नोपपद्यते ॥३३॥
एतदपि- अनन्तरोदितमपि, उक्तिमात्रम्- युक्तिशून्यम् , यत्- यस्मात् कारणात् , अगम्यगमनादिषु तथामवृत्तितः अगम्यगमनादितुल्यप्रवृत्तेः, युक्त्या विचार्यमाणम् , माध्यस्थ्यं नोपपद्यते ॥ ३३॥
कुतस्तर्युपपद्यते ?, इत्याह- . अप्रवृत्त्यैव सर्वत्र यथासामर्थ्यभावतः। विशुद्धभावनाभ्यासात्तन्माध्यस्थ्यं परं यतः॥३४॥
सर्वत्र- गम्यागमनादौ, यथासामर्थ्यभावतः- स्वपरिहारसामर्थ्यमनतिक्रम्य, अप्रवृत्यैव- तनिबन्धनविषयद्वेषात तदनिच्छया, निर्ममत्वमासाद्य विशुद्धानां मैत्र्याधुपबृंहितानां भावनानामनित्यत्वाद्यनुप्रेक्षाणामभ्यासाद् दृढमानसोल्साहात, परमनिर्ममत्वप्राप्तेः, विषयद्वेषस्यापि वढेर्दाद्यं विनाश्याऽनुविनाशवद् विषयेच्छां विनाश्य तत्काल विनाशात् तत्- प्रागुक्तम् , परम्- उत्कृष्टम्, माध्यस्थ्यं भवति यतः, अतोऽन्यथा नोपपद्यत इति भावः । तदिदमुक्तं वशिष्ठेनापि
Jan Education Intern
For Private Personel Use Only