________________
शास्त्रवार्ता
॥ ६९ ॥
Jain Education Inter
ज्ञानरूपेण प्रत्यक्षेण बाध्यते । न चोक्तागमस्यैव किं नैतद् बाधकत्वम् ?, इति वाच्यम् ; बहुसिद्धत्वेनाऽस्यैव बलवत्त्वात् । न च 'शतमप्यन्धानां न पश्यति' इति न्यायाद् बहुसिद्धत्वमप्रयोजकम्, उपजीव्यजातीयत्वात्, अनुकूलतर्कसहकृतत्वाच्चेत्यवसेयम् । उक्तो लोकदृष्टिशविरोधः ॥ ३० ॥
अथेष्टविरोधमाह—
स्वधर्मोत्कर्षादेव तथा मुक्तिरपीष्यते । हेत्वभावेन तद्भावो नित्य इष्टेन बाध्यते ॥ ३१ ॥
तथा, तैर्वादिभिः स्वधर्मोत्कर्षादेव - स्वाभिमताऽगम्यगमनादिधर्मप्रकर्षादेव, मुक्तिरपीष्यते, तथा च हेत्वभावेन सर्वागम्यगमनादीनां दुःशकतया तदुत्कर्षरूपचरमहेत्वसंभवेन, तद्भावः- मुक्त्युत्पादः, नित्यः- हेतुनिरपेक्षः स्यात्, नज्म श्लेषेण अनित्यः-- अभवनशीलः स्यादिति वा ; स चेष्टेन- उक्तरीत्या सहेतुकत्वाभ्युपगमेन, बाध्यते । 'तद्भावः - मुक्तिसद्भावः, नित्यः स्यात्, हेत्वभावेन मुक्तानां मुक्तताक्षतेः, तथा चेष्टवाधः' इति ग्रन्थकृदाशयैस्तु हिंसाध्यवसाय विशेषरूपहिं सोत्कर्षेण प्राकर्मक्षयसंभवेऽप्यग्रे तदभावेन क्षणिकत्वद्वाराऽसंभवादुपपाद्यः ॥ ३१ ॥
पराभिप्रायमाह-
माध्यस्थ्यमेव तद्धेतुरगम्यगमनादिना । साध्यते तत्परं येन तेन दोषो न कश्चन ॥ ३२॥
१ स्वोपज़टीकायां स्थित इति शेषः ।
For Private & Personal Use Only
सटीकः ।
॥६९॥
www.jainelibrary.org