SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ प्रतिपक्षागमानां- जैनातिरिक्तदर्शनानाम्, दृष्टे-धाभ्यां विरोधतः- अबाधितप्रत्यक्षादिस्वाभ्युपगमविरुद्धार्थाभिधायकEA त्वात , 'तथा' इति हेत्वन्तरसमुच्चये, अनाप्तप्रणीतत्वात्- यथार्थवाक्यार्थशून्यवक्तृकत्वात् , आगमत्वं- प्रमाणशब्दत्वम् , न युज्यते ॥ २८ ॥ .. अत्रोभयहेत्वभिधानेऽपि द्वितीयहेतुग्रहेऽपि प्रथम एव हेतुः, इत्युपजीव्यत्वात् तस्यैवाश्रयणं युक्तमित्युपदर्शयन् , तदुपदर्शनमेव प्रतिजानीतेदृष्टे-ष्टाभ्यां विरोधाच्च तेषां नाप्तप्रणीतता।नियमाद् गम्यते यस्मात्तदसावेव दर्श्यते ॥२९॥ तेषां-विप्रतिपन्नागमानाम्, दृष्टे-शाभ्यां विरोधाच नाऽऽप्तमणीतता, नाप्तपदस्य नाकादिमध्यनिवेशाश्रयणादनाप्तप्रणीततेत्यर्थः; 'आप्तपणीतता' इत्युत्तरं नो योजनात् तत्र क्रियान्वये तात्पर्यादाप्तप्रणीतत्वाभाव इति वाऽर्थः; नियमात्- व्याप्तिबलात्, गम्यते- अनुमीयते यस्मात् , तत्- तस्माद्धेतोः, असावेव- दृष्टे-टाभ्यां विरोध एव, प्रदर्श्यते- शब्देन श्रोतृणां बोध्यते ॥ २९॥ तत्रादौ मण्डलतन्त्रादिवादिमते तं प्रदर्शयति8 अगम्यगमनादीनां धर्मसाधनता कचित् । उक्ता लोकप्रसिद्धेन प्रत्यक्षेण विरुध्यते ॥३०॥ अगम्यगमनांदीनां लोक-शास्त्रनिषिद्धभगिन्यादिगमन-मांसभक्षणप्रभृतीनाम् , कचित्- मण्डलतन्त्रादिग्रन्थे, धर्मसाधनता उक्ता, सा लोकप्रसिद्धन- अविदङ्गनादिसिद्धेन 'भगिन्यादिगमनादिकं न धर्मजनकम्' इत्याकारेण श्रुतनिश्रितादिमति Jain Education 9X4 Hal For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy