________________
शास्त्रवार्ता-
॥६८॥
acco
फलम् , प्रतिबन्धकाभावसहकृतदृष्टकारणसमाजाच्च पुत्राद्युत्पत्तिरिति न दोषः' इति निरस्तम् । प्रतिकूलकर्माभाववदनुकूलकर्म- सटीकः । णोऽप्यवश्यमपेक्षणात , तद्विपाकार्थमेव तत्कर्मान्यथासिद्धेः ।। २६ ॥
इदमेव दृष्टान्तेन द्रढयतिब्रह्महत्यानिदेशानुष्ठानाद् ग्रामादिलाभवत् । न पुनस्तत एवैतदागमादेव गम्यते ॥२७॥ . ब्रह्महत्याया निदेशः- 'त्वं ब्राह्मणं व्यापादय, ततोऽहं तव ग्रामादि दास्यामि' इति राजाऽऽज्ञा, ततोऽनुष्ठानम्- ब्रह्महत्याकरणम् , ततो ग्रामादिलाभवत्- स ग्रामादिलाभो यथा प्राचीनपापानुवन्धिपुण्यादेव, न पुनस्तत एव- ब्रह्महत्याया एव; तथा प्रकृतमपीति भावः । ननु ब्रह्महत्यायास्तत्फलबोधको न विधिः, इतरत्र तु तादृशविधिश्रवणाद् वैषम्यम् , इत्यत आहएतत्- उपपादितम् , आगमादेव गम्यते- आगम एव हि हिंसासामान्ये दुःखजनकत्वं बोधयति, तत् कथं स एव हिंसाविशेपस्य सुखजनकत्वं बोधयेत् ? इति भावः। अधिकमग्रे विवेचयिष्यामः। इत्थं चैतदवश्यमुपेयम् , अन्यथा श्रोत्रियेणापि म्लेच्छादिकृतकर्मविशेषात् फलविशेषदर्शनात् किं तत्र समाधान विधेयम् ॥ २७ ।।
नवागमोऽपि प्रतिपक्षागमवाधित एवेत्युक्तमेव, इत्यतस्तेषां निर्बलत्वेनाऽप्रतिपक्षत्वमवसरसंगत्याहप्रतिपक्षागमानां च दृष्टे-ष्टाभ्यां विरोधतः। तथाऽनाप्तप्रणीतत्वादागमत्वं न युज्यते ॥२८॥ ॥ ६८ ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org