SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ople आगमाद् न भिद्यते, श्रुतानुसारिमतेः श्रुनान्तर्भूतत्वात् । अत एव भव्या-ऽभव्यादिभावानां पूर्वम् , "तत्थ य अहेउवाओ भविया-ऽभवियादओ भावां" इति गाथाप्रतीकेनाऽहेतुवादविषयत्वमुक्त्वाऽपि “भविओ सम्मईसण-नाण-चरित्त-पडिवत्तिसंपण्णो । णियमा दुक्खंतकडो त्ति लक्खणं हेउवायर्स ॥१॥" इति गाथयाऽनन्तरमागमोपगृहीतहेतुप्रवृत्त्या हेतुवादविषयत्वमुक्तं भगवता सम्मतिकृता, इत्यवधेयम् ॥ २५ ॥ नन्वागमेनापि कथमयं नियमो बोधनीयः, पापादपि सुखदर्शनेन व्यभिचारनिश्चयात् ?, इत्यत आहअशुभादप्यनुष्ठानात्सौख्यप्राप्तिश्च या क्वचित् । फलं विपाकविरसा सा तथाविधकर्मणः२६॥ अशुभादप्यनुष्ठानात्- क्षुद्रदेवताविशेषोद्देशेन भूतवधाद्याचारादपि, या कचित् सौख्यप्राप्तिः पुत्रप्राप्त्यादिजन्या, सा विपाकविरसा- आयत्यहितानुबन्धिनी, तथाविधकर्मणः- प्राचीनपापानुवन्धिपुण्यस्य, फलम् । न चैवं तत्कर्माऽनपेक्षा स्यात् , पापजनकव्यापारमपेक्ष्यैव तस्योद्देश्यफलजनकत्वात् , तद्विपाकजनकतया तदपेक्षणात् । अत एव 'कचित्' इत्यनेन व्यभिचारमूचनात् तत्कर्मणस्तत्फलजनकत्वमपास्तम् । न चैहिकतत्तत्फलोद्देशेन तत्तत्कर्मविधानादङ्गादिवैकल्यप्रयुक्तो व्यभिचार इति न दोष इति वाच्यम् : साङ्गादपि पुत्रेष्टयादेः कचित् पुत्राद्यनुत्पाददर्शनात् । एतेन 'प्रतिबन्धकादृष्टध्वंस एवं पुढेष्टयादि १ तत्र चाहेतुवादो भव्या-ऽभव्यादयो भावाः । २ सम्मतिसूत्रे गाथा १४० । ३ भव्यः सम्यग्दर्शन-ज्ञान-चारिन प्रतिपत्तिसंपनः । नियमात् कृतदुःखान्त इति लक्षणं हेतुवादस्य ॥१॥ ३ सम्मतिसूत्रे गाथा १४१ । Jan Education For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy