SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता ॥६७॥ छअस्थस्य-- अक्षीणघातिकर्मणः, अविसंवादि- अप्रामाण्यशङ्कादिविरहितम् , अन्यत्- शब्दातिरिक्तम्, मान-प्रमाणं, न सटीकः । विद्यते । प्रातिभादिना योगिभिस्तद्ग्रहणात् प्रायोग्रहणम् । अत्र च यद्यप्यतीन्द्रियार्थे पूर्वमागमस्य प्रमाणान्तरानवगतवस्तुपतिपादकत्वेनाहेतुवादत्वम् , तथाप्यग्रे तदुपजीव्य प्रमाणप्रवृत्तौ हेतुवादत्वेऽपि न व्यवस्थानुपपत्तिः, आद्यदशापेक्षयैव व्यवस्थाभिधानात् । अतो यदन्यत्रोक्तम्- 'आगमश्चोपपत्तिश्च' इत्यादि, तद् नानेन सह विरुध्यते, अपूर्वत्वं चादृष्टस्योपपद्यत इति ध्येयम् ॥ २३ ॥ उक्ततकें बाधकमुक्त्वा प्रकृतोपपत्तिमाहयच्चोक्तं दुःखबाहुल्यदर्शनं तन्न साधकम् । कचित्तथोपलम्भेऽपि सर्वत्रादर्शनादिति ॥२४॥ .. यच्च दुःखबाहुल्यदर्शनमुक्तं तर्कघटकत्वेन, तत् साधकम् - आपादकमपि न । कुतः ?, इत्याह-- कचिद् भरतादौ, 8 तथोपलम्भेऽपि- दुःखबाहुल्यदर्शनेऽपि, सर्वत्र महाविदेहादी, अदर्शनात्- दुःखबाहुल्यानुपलम्भात् । इति हेतुसमाप्त्यर्थः॥२४॥ सर्वत्र दर्शनं यस्य तद्वाक्यात्किं न साधनम् ? । साधनं तद्भवत्येवमागमात्तु न भिद्यते॥२५॥ ___अथ यस्य सर्वत्र- सर्वक्षेत्रेषु, दर्शनं- दुःखबाहुल्यज्ञानम् , तद्वाक्याद् दुःखबाहुल्यं ज्ञात्वा साधनम् - उक्तप्रसङ्गसाधनम् , किं न भवेत् , आपाद्यव्यतिरेकनिश्चयसाम्नाज्यात् ?; इति चेत् । तत् साधनं भवत्येव, तु- पुनः, एवम्- उक्तप्रकारेण, ॥६७॥ Jain Education Bona For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy