________________
परक
अत्राऽऽपाद्यविपर्ययप्रदर्शनेन शुद्धत्वमाहनचैतदृश्यते लोके दुःखबाहुल्यदर्शनात्। शुभात्सौख्यं ततःसिद्धमतोऽन्यच्चाप्यतोऽन्यतः॥
न चैतत्-- आपाद्यमानम् , लोके- जगति, दृश्यते । कुतः १, इत्याह-दुःखबाहुल्यदर्शनात्- दुःखस्य पुण्याऽसमानाधिPo: करणत्वदर्शनात् । इदमुपलक्षणं सुखे यावत्पापकर्तृवृत्तित्वाभावस्य । ततः शुभात्- पुण्यात् , सौख्यम् । अतः- सौख्यात् , अन्यद् दुःखं चापि, अतः-पुण्यात्, अन्यतः-- पापात् , सिद्धम् ।। २१ ।।
नेदं स्वतन्त्रसाधनम् , किन्त्वापाततः प्रसङ्गाऽऽपादनम् , तच्च न साधकम् , इत्यन्येषां वार्तान्तरमाहअन्ये पुनरिदं श्राद्धा ब्रुवत आगमेन वै। शुभादेरेव सौख्यादि गम्यते नान्यतः क्वचित्॥२२॥
. अन्ये पुनः श्राद्धाः- आगमे श्रद्धावन्तः, इदं- वक्ष्यमाणम् , बुवते । किम् ?, इत्याह-वै- निश्चितम् , शुभादेरेवo पुण्यादेरेव, सौख्यादि फलम् , इत्यागमेन गम्यते ; कचित्- कुत्रापि, अन्यतः- अन्येन मानेन, न गम्यते ॥ २२ ॥
कुतः?, इत्याहअतीन्द्रियेषु भावेषु प्राय एवंविधेषु यत् । छमस्थस्याविसंवादि मानमन्यद् न विद्यते॥२३॥
पायः- बाहुल्येन, एवंविधेषु- उक्तजातीयेषु, अतीन्द्रियेषु- ऐन्द्रियकक्षयोपशमाऽग्राह्येषु, भावेषु, यत्- यस्मात् कारणात् ,
Jan Education
For Private
Personel Use Only