________________
शास्ववार्ता
सटीकः।
अन्यस्तु वादी, आह- इह-न्याये लोके च, हिंसादिभ्य एवाऽशुभादिके सिद्धेऽपि, शुभादरेव-पुण्यकर्मादेरेव, सौख्यादि भवति, न पापादेः, इति केन मानेन गम्यते ॥ १८॥
अत्र केषांचित् समाधानवातामाहअत्रापि त्रुवते केचित् सर्वथा युक्तिवादिनः।प्रतीतिगर्भया युक्त्या किलैतदवसीयते॥१९॥ ___ अत्रापि- उक्तपूर्वपक्षेऽपि, केचित् सर्वथा युक्तिवादिनः- आगमनिरपेक्षयुक्तिप्रणयिनः, ब्रुवते । किं ब्रुवते ?, इत्याहप्रतीतिगर्भया- अनुभवसहकृतया, युक्त्या- तर्केण, 'किल' इति सत्ये, एतत्-प्राक् पर्यनुयुक्तम्, अवसीयते- निश्चीयते ॥१९॥
तन्मतमेवाहतयाहु शुभात्सौख्यं तद्वाहुल्यप्रसङ्गतः।बहवः पापकर्माणो विरलाःशुभकारिणः॥२०॥
ते वादिन आहुर्यत- अशुभात्- पापकर्मणः, सौख्यं न भवति । कुतः ?, इत्याह- तद्बाहुल्यप्रसङ्गतः- सुखभूयस्त्वप्रसङ्गात् । इदमपि कुतः ?, इत्याह- पापकर्माणो हिंसादिकारिणः, बहवो व्याधादयः, शुभकारिणः-- हिंसादिनिवृत्ताः साधुप्रभृतयः, विरलाः- स्तोकाः। एवं च सुखं यदि पापजन्यं स्यात् , यावत्यापकतवृत्ति स्यात्ः दुःखं च यदि पुण्यजन्यं स्यात् , पुण्याऽसामानाधिकरणं न स्यात् , इति तर्कशरीरं बोध्यम् ॥२०॥
a॥६६॥
Jain Education international
For Private Personal Use Only
www.jainelibrary.org