SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ एवम् लोष्टस्वभावत्वे, भवतोऽपि लाष्टवत् सुबुद्धिशून्यत्वम्- सम्यग्बुद्धिरहितत्वम्, प्रसज्यते; अपिना लोष्टस्याऽपि बुद्धियुक्तत्वं स्यादिति प्रागुक्तं स्मार्यते । इष्टापत्तावाह अस्तु न्यायानुगतं तथास्वभावत्वम् इति चेत् । तदा सर्वथा बुद्धिशून्येन भवता सह, नः - अस्माकम् को विवादः १ । एवं चावश्यक्लृप्तनियतपूर्ववर्तिनो हिमादेरेव रोमाञ्चादिकार्यसंभवे तत्सहभूतस्य वह्नेरन्यथासिद्धत्वाद् न तज्जनकत्वम्, न वा तदनुरोधेन शीतस्वभावत्वमिति । प्रकृतेऽप्येवं व्यवस्था भावनीया । अथैवं कारणत्वस्य स्वाभाविकत्वे नीलादिवत् साधारणं स्यादिति चेत् । स्यादेव सर्वैस्तवेन प्रतीयमानत्वरूपमन्यग्रहानधीनग्रहविषयत्वरूपमपि तद्धेतुशक्तावस्त्येव, व्यञ्जकस्वभावे त्वन्यघटितत्वादेव नास्ति । न च परापेक्षत्वादलीकत्वापत्तिः, तथानियमाभावात् | अभ्यधिष्महि च भाषा रहस्ये ""ते होंति परावेक्खा वंजय मुहसिणो त्ति ण य तुच्छा । दिट्ठमिणं वेचित्तं सराव कप्पूरगंधाणं ॥ १ ॥ " इति । अधिकं तद्विवरणादव सेयम् ॥ १७ ॥ एवं प्रतिपक्षस्वभावो निराकृतः । ततः प्रतिपक्षाऽऽगमनिराकरणे प्राप्तेऽप्यागमशरणार्थं प्रसङ्गाद् वार्तान्तिरमुत्थापयति अन्यस्त्वाहेह सिद्धेऽपि हिंसादिभ्योऽशुभादिके । शुभादेरेव सौख्यादि केन मानेन गम्यते ११८ १ ते भवन्ति परापेक्षा व्यञ्जकमुखदर्शिन इति न च तुच्छाः । दृष्टमिदं वैचित्र्यं शराव कर्पूरगन्धयोः ॥ १ ॥ २ भाषारहस्ये गाथेयं ३० । Jain Educationational For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy