SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता - 11411 एतदेव दृष्टान्तेन द्रढयति हिमस्यापि स्वभावोऽयं नियमाद्वह्निसंनिधौ । करोति दाहमित्येवं वहन्यादेः शीतता न किम् ? | हिमस्याऽप्ययं स्वभावो यद् नियमात् - अवश्यं, वह्निसंनिधौ वह्निसमीप एव, दाहं करोति, सामीप्य एवाध्यस्कान्तवत्, नागदमनीवद् वा कार्यकारित्वात् । इति हेतोः, एवम् - हिमस्य दाहजनकत्ववत्, वयादेः शीतता न किं ? किं न स्वभावः १ ।। १५ ।। अत्रोत्तरमाह व्यवस्था भावतो ह्येवं या त्वबुद्धिरिहेदृशी । सा लोष्टादस्य यत्कार्य तत्त्वत्तस्तत्स्वभावतः॥ एवम् उक्तरीत्या व्यवस्थाऽभावतः - सम्यग्नियामकाभावात् हि निश्चितम् या इह विचारे, ईदृशी- स्वभावान्यथात्वकल्पनात्मिका, त्वबुद्धिः, सा लोष्टात् पाषाणात् त्वत्समीपस्थे तत्र त्वत्स्वभावसंक्रमात् । तथा, अस्य - लोष्टस्य, यत्कार्यम् - अभिघातादिकम्, तत् त्वत्तः सकाशात् लोष्टसमीपस्थस्य तव तत्स्वभावतः - लोष्टस्वभावात् ॥ १६ ॥ , ततः किम् १, इत्याह एवं सुबुद्धिशून्यत्वं भवतोऽपि प्रसज्यते । अस्तु चेत्को विवादो नो बुद्धिशून्येन सर्वथा ॥ १७॥ Jain Education International For Private & Personal Use Only सटीकः । ।। ६५ ।। www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy