SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ समाधत्तेप्रतीत्या बाध्यते यो यत्स्वभावो न स युज्यते।वस्तुनः कल्प्यमानोऽपि वढ्यादेः शीततादिवत्।। यद्- यस्मात् कारणात् , यः स्वभावः, प्रतीत्या-प्रमाणेन, बाध्यते स कल्प्यमानोऽपि- तत्स्वभावत्वेन वह्नयादेः Hशीततादिवज्जात्याऽऽपाद्यमानोऽपि, वस्तुनः स्वभावो न युज्यते- न सत्तर्कविषयो भवति । तथाच 'वह्नयादेयाष्णत्वादि खभावः स्यात् , शीतत्वाद्यपि स्यात्' इतिवत् 'हिंसादेर्यद्यधर्मजनकत्वादिस्वभावः स्यात् , धर्मजनकत्वाद्यपि स्यात्' इति न | बाधकमिति भावः ॥१३॥ पर आहविह्नःशीतत्वमस्त्येव, तत्कार्य किं न दृश्यते ? दृश्यते हि हिमासन्ने, कथमित्थं स्वभावतः॥१४॥ बढेः शीतत्वमस्त्येव- स्वाभाविकमेव मृगतृष्णिकादिवत् । तत्राह- यदि भ्रमादुपलभ्यमानमपि शीतत्वं वह्निस्वभावः, तदा तत्कार्य- तत्सङ्गेन रोमाञ्चाविर्भावादि, किं न दृश्यते ? । पर आह-हि-निश्चितम् , हिमासन्ने वह्नौ, शीतकार्य रोमाचादि दृश्यते । तत्राचार्य आह- इत्यं कथम् ?- 'हिमासन्न एव वह्निः शीतकार्य जनयति, नान्यदा' इति कथम् । पर आहखभावतः, यथा दण्डादेश्चक्रादिसंयुक्तस्यैव कार्यजनकत्वस्वभावः, तथा वहेर्हिमासनस्यैव रोमाञ्चजनकत्वस्वभाव इत्यर्थः ॥१४॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy