________________
॥ ६४
BOOR
शास्त्रवार्ता- जिज्ञासया तदुपपत्तेः। न चैवं खभावेऽपि प्रश्नापत्तिः, तत्र व्याघातेन शङ्काया एवाऽनुदयादिति ॥१०॥
सटीकः। उक्तमेवाऽङ्गीकारयतिसुदूरमपि गत्वेह विहितासूपपत्तिषु । कः स्वभावागमावन्ते शरणं न प्रपद्यते ? ॥११॥
इह-शास्त्रे, सुदूरमपि गत्वा- बहून्यपि प्रमाणानि परिगृह्य, उपपत्तिषु-मूक्ष्मयुक्तिपु, विहितासु-प्रकटीकृतासु, को। वादी, अन्ते-बाधकतर्कोपस्थितौ, स्वभावा-ऽऽगमौ शरणं न प्रपद्यते ?- स्वपक्षसाधनार्थ बलवत्वेन नाङ्गीकुरुते ?- सर्व एव तथा प्रपद्यत इत्यर्थः । बौद्धनाऽहेतुकस्य कार्यस्य स्वभावेन कादाचित्कत्वसमर्थनात् , मीमांसकेन च यागीयहिंसायामधर्मजनकत्वाभावे 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादिवेदवाक्यस्यैव प्रमाणत्वेनाऽऽश्रयणादिति ॥११॥
परः पर्यनुयुङ्क्तेप्रतिपक्षस्वभावेन प्रतिपक्षागमेन च । बाधितत्वात्कथं ह्येतौ शरणं युक्तिवादिनाम् ? ॥१२॥
प्रतिपक्षस्वभावेन- उक्तविपरीतस्वभावेन, प्रतिपक्षागमेन-उक्तविपरीतागमैन च बाधितत्वात , हि-निश्चितम् , एतौउक्तखभावा-ऽऽगमौ, युक्तिवादिना- युक्तिप्रधानवादिनाम् , न तु श्रद्धामात्रवताम् ; कथं शरणम् ?- कथमर्थसिद्धिक्षमौ ?- न ॥६४ ॥ A कथञ्चिदित्यर्थः ॥ १२॥
COM
Inin Education Inte
For Private
Personal Use Only
www.jainelibrary.org