________________
Jain Education
तस्मात् उक्तोपपत्तेः, यथोदितात्- पृथक् प्रमाणत्वेन व्यवस्थापितात् सम्यगागमाख्यात्- आप्तोक्तशब्दाभिधानात्, प्रमाणतः, हिंसादिभ्यः - हिंसा - ऽहिंसादिभ्यः शुभादीनि पाप-पुण्यादीनि, बहुवचनाद् दुःख-सुखादिसंग्रहः अयं नियम:नियतहेतुहेतुमद्भावः, व्यवस्थितः - सिद्धः ॥ ८ ॥
एतदेव भावयन्नाह -
1
| क्लिष्टाद्धिंसाद्यनुष्ठानात्प्राप्तिः क्लिष्टस्य कर्मणः । यथाऽपथ्यभुजो व्याधेरक्लिष्टस्य विपर्ययात् ॥ क्लिष्टात्- संक्लेशबहुलात्, हिंसाद्यनुष्ठानात्, क्लिष्टस्य- ज्ञानावरणादिप्रकृतिकस्य, कर्मणः प्राप्तिर्भवति यथा- अपथ्य-भुजः- विरुद्ध भोजिनो रोगिणः, व्याधेः- रोगस्य प्राप्तिः । तथा, विपर्ययात्- अक्लिष्टाऽहिंसाद्यनुष्ठानात्, अक्लिष्टस्य - सातवेदनीयादिशुभप्रकृतिकस्य कर्मणः, प्राप्तिर्भवति यथा- पथ्यभोजिनो व्याधिविगमात् सुखस्य प्राप्तिरिति ॥ ९ ॥
आगमाद् नियममुक्त्वा स्वभावात् तं व्यवस्थापयितुमाह
स्वभाव एष जीवस्य यत्तथापरिणामभाक् । बध्यते पुण्य-पापाभ्यां माध्यस्थ्यात्तु विमुच्यते॥१०॥
एष जीवस्य चेतनस्य, स्वभावो यत् तथापरिणामभाक्- हिंसादिपरिणतः, पुण्य-पापाभ्यां बध्यते; माध्यस्थ्यात्तुवैराग्यात्तु, विमुच्यते - क्षीणकर्मा भवति । इत्थं चैतदप्यवश्य मङ्गीकर्तव्यम्, अन्यथा 'दण्डादेरेव घटादिजनकत्वम्, न बेमादे:इति कुत: ?' इति प्रश्ने किमुत्तरमभिधानीयमायुष्मता ? । न च प्रश्नस्यैवानुपपत्तिः, 'पर्वते वह्निः कुतः ?' इत्यत्रेव ज्ञापकहेतु
tional
For Private & Personal Use Only
www.jainelibrary.org