SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता ॥ ६३ ॥ Jain Education Inte इत्यनुमानस्यापि संभवात् इति चेत् । न, अनुमानाद् नियतबोधानुपपत्तेः । शाब्दात्मकविलक्षणानुमितौ व्युत्पत्तेरपि तन्त्रत्वाद् न दोष इति चेत् । न, व्युत्पत्तेः पदस्य शाब्दहेतुत्वगर्भत्वात् । किञ्च एवं प्रत्यक्षादिना सिद्धावपि विनैवेच्छां शाब्दबोधानुदयः स्यात् । न च पक्षताया लिङ्गभेदभिन्नत्वेन तत्तल्लिङ्गकानुमितौ तदहेतुत्वादेव नानुपपत्तिरिति वाच्यम्; तथाप्यन्विता ऽन्वयवारणाय तल्लिङ्गकतदनुमितौ तल्लिङ्गकतदनुमित्यभावस्य हेतुत्वापेक्षया घटपदजन्यशाब्दबोधे घटपदजन्यशाब्दबोधस्यैव प्रतिबन्धकत्वे लाघवात्, अतिरिक्तशाब्दसिद्धेः । एवं पदजन्यविशिष्टवैशिष्टयबोधे पदजन्यविशेषणतावच्छेदकप्रकारकज्ञानहेतुत्वादिनापि तत्सिद्धिः । अपि च, घटात् पृथगित्यन्वये शाब्दसमानाकाराऽनुमितिर्दुर्घटा, पृथक्त्व पक्षकानुमितावतद्वतोऽभानापत्तेः, तद्वतः पक्षत्वे च तत्रैव पञ्चम्यर्थभानापत्तेः । वस्तुतः 'नानुमिनोमि, किन्तु शाब्दयामि' इति विषयताविशेषसिद्ध्या शाब्दस्यातिरेकः । न च शाब्दाऽनुमितिसामग्रीसमाहारे युगपदुभयोत्पत्तिवारणायैकसामग्यापरत्र प्रतिबन्धकत्वकल्पने गौरवम्; वहयादेरशाब्दानुमितेः, अपरस्य शाब्दानुमितेश्चैकदोत्पत्तिवारणाय तवापि शाब्दानुमितेः शाब्देतरानुमितिप्रतिबन्धकत्वकल्पनावश्यकत्वात् ; इत्यन्यत्र विस्तरः ॥ ७ ॥ निगमयन्नाह - तस्माद्यथोदितात्सम्यगागमाख्यात्प्रमाणतः । हिंसादिभ्योऽशुभादीनि नियमोऽयं व्यवस्थितः For Private & Personal Use Only सटीकः । ॥ ६३ ॥ ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy