________________
पस्थितेः । अत एव अनुमानादस्य विशेषतः
नत्वाच्छाब्दस्याऽमामाण्यम्' इत्यपि निरस्तम्, गुणवद्वक्तृकत्वेन तस्य प्रामाण्यव्यवस्थितेः । अत एव 'अनुमानादस्य विशेषः, शाब्दप्रमायां वक्तृयथार्थवाक्यार्थज्ञानस्य गुणत्वात् , इति गुणवक्तृपयुक्तशब्दप्रभवत्वादेव शाब्दमनुमानज्ञानाद् विशिष्यते' इति वदतां सम्मतिटीकाकृतामाशयः।
अत्रेदमवधयेम्- एते पदार्थास्तात्पर्यविषयमियःसंसर्गवन्तः, आकासादिमत्पदस्मारितत्वात् 'दण्डेन गामभ्याज' इति पदस्मारितपदार्थवत्, इति न शाब्दस्थलीयानुमानशरीरम् , अनाप्तोक्तपदस्मारिते व्यभिचारात् । आप्तोक्तत्वेन विशेषणीयो o हेतुरिति चेत् । न, आप्तत्वस्य पूर्व दुहत्वात् । अत एव योग्यताया हेतुप्रवेशेऽपि न निर्वाहः, एकपदार्थेऽपरपदार्थवचरूपायाBRI स्तस्याः प्रागनिश्चयात् । निश्चये वा सिद्धसाधनात् । आकासापि समभिव्याहृतपदस्मारितार्थजिज्ञासारूपा' स्वरूपसत्येव
हेतुः, न तु ज्ञाता । योग्यतासहिताऽऽसत्तिरपि न नियामिका, 'अयमेति पुत्रो राज्ञः पुरुषोऽप्रसार्यताम्' इत्यत्र 'राज्ञः पुरुषः' इति भागे व्यभिचारात् । एतेन 'एतानि पदानि तात्पर्य विषयस्मारितपदार्थसंसर्गप्रमापूर्वकाणि, आकासादिमत्पदत्वात् , इत्यनुमानशरीरे उक्तयोग्यताया हेतुविशेषणेऽपि न सिद्धसाधनम्' इत्युक्तावपि न निस्तारः । | अथ तात्पर्यरूपाऽऽकासा हेतुप्रविष्टेति न व्यभिचारः। न च कर्मवादी घटादिसंसर्गसिद्धावपि कर्मत्वादौ निरूपितत्वसंबन्धेन घटादिप्रकारकबोधो न जात इति वाच्यम्, कर्मत्वादिकं घटादिमन् , घटाकासादिमत्पदस्मारितत्वात् ,
१ अतः प्रभृति 'संभवात्' इति पर्यन्तः पूर्वपक्षः ।
Jain Education in
For Private & Personel Use Only
Howw.jainelibrary.org