SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता सटीकः । ॥६२॥ आह---- सुवृद्धसंप्रदायेन- ज्ञान-चरणसंपन्नगुरुपरम्परया । नन्वियमपि मिथोविवादाक्रान्ता, सुवृद्धत्वप्रमापकत्वन्तरानुसरणे च तदेवाऽऽगमैकत्वग्राहकमस्तु, इत्यत आह- तथा पापक्षयेण च- सम्यक्त्वप्रतिबन्धककर्मक्षयोपशमेन च । 'अयं हि सर्वत्र यथावस्थितत्वग्रहे मुख्यो हेतुः, लब्धीन्द्रियरूपतदभिव्यञ्जकतयेवाऽन्योपयोगात् , तदभिव्यक्तिव्यापारकतयैव 'तथा' इत्यनेन हेत्वन्तरसमुच्चयात् ' इति वदन्ति ॥ ५॥ विपर्यये बाधकमाहअन्यथा वस्तुतत्त्वस्य परीक्षैव न युज्यते । आशङ्का सर्वगा यस्माच्छद्मस्थस्योपजायते॥६॥ अन्यथा- उक्तरीत्या संशयाविच्छेदे, वस्तुतत्त्वस्य परीक्षेव-सदसद्विचार एव, न युज्यते; यस्माद् हेतोः, छमस्थस्यअक्षीणज्ञानावरणीयस्य, सर्वगा- सर्वार्थविषयिणी, आशङ्का जायते ॥ ६॥ अस्तु तोपरीक्षैव, इत्यत आहअपरीक्षापि नो युक्ता गुण-दोषाविवेकतः।महत्संकटमायातमाशङ्के न्यायवादिनः ॥७॥ ___ अपरीक्षापि- अविचारोऽपि, नो-नैव, युक्ता । कस्मात् ?, इत्याह- गुण-दोषाविवेकतः-निष्कम्पप्रवृत्ति-निवृत्तिप्रयोजकानिश्चयात् । तस्मात् परीक्षा-ऽपरीक्षोभयायोगात् , न्यायवादिनः लर्किकस्य, महत् संकटमायातमित्याशङ्के । एतेन 'वक्त्रधी- १ सुवृद्धत्वप्रमापकहेत्वन्तरम् । Man For Private Personal use only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy