SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता सटीकः । ॥६२॥ आह---- सुवृद्धसंप्रदायेन- ज्ञान-चरणसंपन्नगुरुपरम्परया । नन्वियमपि मिथोविवादाक्रान्ता, सुवृद्धत्वप्रमापकत्वन्तरानुसरणे च तदेवाऽऽगमैकत्वग्राहकमस्तु, इत्यत आह- तथा पापक्षयेण च- सम्यक्त्वप्रतिबन्धककर्मक्षयोपशमेन च । 'अयं हि सर्वत्र यथावस्थितत्वग्रहे मुख्यो हेतुः, लब्धीन्द्रियरूपतदभिव्यञ्जकतयेवाऽन्योपयोगात् , तदभिव्यक्तिव्यापारकतयैव 'तथा' इत्यनेन हेत्वन्तरसमुच्चयात् ' इति वदन्ति ॥ ५॥ विपर्यये बाधकमाहअन्यथा वस्तुतत्त्वस्य परीक्षैव न युज्यते । आशङ्का सर्वगा यस्माच्छद्मस्थस्योपजायते॥६॥ अन्यथा- उक्तरीत्या संशयाविच्छेदे, वस्तुतत्त्वस्य परीक्षेव-सदसद्विचार एव, न युज्यते; यस्माद् हेतोः, छमस्थस्यअक्षीणज्ञानावरणीयस्य, सर्वगा- सर्वार्थविषयिणी, आशङ्का जायते ॥ ६॥ अस्तु तोपरीक्षैव, इत्यत आहअपरीक्षापि नो युक्ता गुण-दोषाविवेकतः।महत्संकटमायातमाशङ्के न्यायवादिनः ॥७॥ ___ अपरीक्षापि- अविचारोऽपि, नो-नैव, युक्ता । कस्मात् ?, इत्याह- गुण-दोषाविवेकतः-निष्कम्पप्रवृत्ति-निवृत्तिप्रयोजकानिश्चयात् । तस्मात् परीक्षा-ऽपरीक्षोभयायोगात् , न्यायवादिनः लर्किकस्य, महत् संकटमायातमित्याशङ्के । एतेन 'वक्त्रधी- १ सुवृद्धत्वप्रमापकहेत्वन्तरम् । Man For Private Personal use only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy