SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ AMICROHDI सासाराम AAAA पराभिप्रायमाहयदि नाम कचिद् दृष्टः संवादोऽन्यत्र वस्तुनि। तद्भावस्तस्य तत्त्वं वा कथं समवसीयते?॥४॥ यदि नाम कचित्- चन्द्रोपरागादावर्थे, संवादो दृष्टः; तदा तदभिधायकवाक्यस्य प्रामाण्यं सिध्यतु । अन्यत्रपापादौ वस्तुनि, तद्भावः-संवादभावः, तस्य पापाद्यभिधायकवाक्यस्य, तत्त्वं वा- प्रमाणत्वं वा, कथं समवसीयते । । प्रामाण्यव्याप्यसंवादित्वग्रहाभावात् पापाद्यभिधायकवाक्ये प्रामाण्यनिश्चयो दुर्घट इति समुदायार्थः॥ ४ ॥ अत्र समाधानमाहआगमैकत्वतस्तच्च वाक्यादेस्तुल्यतादिना । सुवृद्धसंप्रदायेन तथा पापक्षयेण च ॥५॥ आगमैकत्वतः- दृष्टा-ऽदृष्टसंवायागमयोरेकत्वात् , 'तस्य तथात्वं समवसीयते' इति योजना; संवादित्ववत् संवादिजातीयत्वस्यापि प्रामाण्यव्याप्यत्वात् । अत एव जलादिज्ञाने दृष्टसंवादजातीयत्वेने प्रागेव प्रामाण्यनिश्चयाद् निष्कम्पा प्रत्तिर्घटत इति भावः । आगमैकत्वमेव कथम् ?, इत्याह- तच्च- आगमैकत्वं च, वाक्यादेः- वाक्य-पदगाम्भीर्यादेः, तुल्यतादिना समवसीयते । नन्विदमयुक्तम् , आगमानुकारेण पठ्यमानेऽन्यत्रापि तत्तुल्यतासत्वात् , अनन्तार्थत्वादेश्व दुर्ग्रहत्वात् । इत्यत १ ख. ग. घ. च. 'क्यप्रा'। २ पापाद्यभिधायकवाक्यस्य । ३ तथात्वं-प्रमाणत्वम् । ४ ख. ग. घ. च. 'न प्रामा' । BreeToTOO JainEducation ima For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy