________________
सटीकः।
शास्त्रवातो- इदमेवाभिप्रेत्य व्युत्पत्तिपुरस्कारेणैव समाधानवार्तामाह॥ ६१ आगमाख्यात्तदन्ये तु तच्च दृष्टाद्यबाधितम् । सर्वार्थविषयं नित्यं व्यक्तार्थ परमात्मना ॥२॥
तदन्ये तु- असंदिहानास्तत्त्ववादिनः, आगमाख्या मानात् , 'नियमं ब्रुवते' इति वाक्यशेषः । कथमेतदत्र मानम् ?, इत्यत आह- तच- आगमाख्यं, दृष्टाद्यबाधितं- दृष्टे-टाभ्यामविरुद्धम् । एतेन ‘पयसा सिश्चति' इत्यादेरिव बाधितत्वनिरासः । तथापि स्वाविषये प्रकृतनियमे कथं तद् मानम् , इत्यत आह- सर्वार्थविषयं- यावदभिलाष्यभावविषयम् ; प्रज्ञापनीयभावानामनन्तभागस्य श्रुतनिबद्धत्वेऽपि तदभ्यन्तरभूतया मत्याऽनिबद्धानामपि तेषां ग्रहणश्रवणाद् नानुपपन्नमेतत् । कृत्रिमत्वात् कथमीदृशमेतत् ?, इत्यत आह-नित्यं-प्रवाहापेक्षयाऽनादि-निधनम् , भरतादौ विच्छेदकालेऽपि महाविदेहेऽविच्छेदात् । तथाप्यनाप्तोक्तत्वादनीदृशमेतत् , इत्याह- परमात्मना- क्षीणदोपेण भगवता, व्यक्तार्थ- प्रतिपादितार्थम् ॥२॥
नन्विदं स्वगृहवार्तामात्रम् , अप्रत्यक्षे पापादौ तत्यामाण्यग्राहकमानाभावात् । इत्याशङ्कायामाह। चन्द्रसूर्योपरागादेस्ततः संवाददर्शनात् । तस्याप्रत्यक्षेपि पापादौ न प्रामाण्यं न युज्यते॥३॥
ततः- तद्बोधितात् , चन्द्र-सूर्योपरागादेरर्थात्- तमाश्रित्य, इति ल्यब्लोपे पश्चमी; संवाददर्शनात्- अविसंवादिप्रत्तिजनकत्वनिश्चयात् , तस्य- शब्दस्य, अप्रत्यक्षेऽपि- श्रोत्रप्रत्यक्षेऽपि, पापादौ, प्रामाण्यं- तद्वद्विशेष्यकत्वे सति तत्प्रकारकज्ञानजनकत्वम् , न युज्यत इति न-न निश्चीयत इति न, किन्तु निश्चीयत एवेत्यर्थः ॥ ३ ॥
OICEKALBERTERE:
R
॥६१॥
hotoODIOS
RAND
Jain Education International
For Private & Personel Use Only
IRanwjainelibrary.org