________________
Jain Education Inter
॥ अर्हम् ॥ अथ द्वितीयः स्तबकः ।
अतीपाय दीपाय सतामान्तरचक्षुषे । नमः स्याद्वादितन्त्राय स्वतन्त्राय विवस्वते ॥ १ ॥ वार्तान्तरमाह
हिंसादिभ्योऽशुभं कर्म तदन्येभ्यश्च तच्छुभम् । जायते नियमो मानात् कुतोऽयमिति चापरे ॥१॥
हिंसादिभ्यः - अविरत्यादिहेतुभ्यः, अशुभं पापं कर्म भवति । तदन्येभ्यश्च विरत्यादिहेतुभ्यः, शुभं पुण्यं, तद्कर्म, भवति । अयं नियम:- प्रतिनियतहेतुहेतुमद्भावनिश्रयः, कुतः कस्मात् मानात् प्रमाणात् ? इति चापरे संदिहाना वादिनः माहुः । अव्युत्पन्नानां चेयमाशङ्का धर्मा-धर्मपद वाच्यत्वावच्छिन्नधर्मिताका, अन्यथा धर्मिग्राहकमानेनो नियमोपरक्तयोरेव धर्मा-धर्मयोः सिद्धावीदृशशङ्काऽनुदयादिति ध्येयम् ॥ १ ॥
१ क. 'तीताय' । २ भास्वते ।
For Private & Personal Use Only
www.jainelibrary.org