SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ शा० स० ॥५॥ Jain Education कर्तुम्, सर्वत्र विरचनासमयस्य टीकाकृता प्राचीं पद्धतिमनुसरताऽनुपात्तत्वेन तद्विनिगमकहेतुविरहात्; इतश्चाप्येतद् निर्णेतुमशक्यम् उक्तवदखिलतग्रन्थानामनासादनेन, उपलब्धव्यानामपि कृत्स्नानां तत्कृतीनां समूलचूलमवलोकनावकाशस्यासंभवात्, संभवेऽपि वा केनचनेदन्तनेन पुरातनेन या धीधनेनाऽनादृतत्वात्, आदृतत्वेऽपि वा तदनुसंधानोपलब्धेरनुपलब्ध्यादिपराहतत्वात् यदि हि ग्रन्थग्रन्थितृभिः पूर्वपूर्वप्रणीतप्रबन्धानामभिसंधिप्रसङ्गस्तदुत्तरोत्तररचितग्रन्थेष्ववाप्तः स्यात्, अवाप्तौ च तत्र नाम गृहीत्वान्यथा वोल्लेखेन पूर्वप्रन्थस्यानुसंधिर्विहितः स्यात्, तादृशनैपुण्यपूर्णश्च कश्चिदपि विपश्चित् तदन्वेषणे प्रारब्धावसितपरिश्रमः प्रादुःष्यात् स्यात् तदा तदाशाऽभीष्टफलशालिनी; एतच्चासंभवरहितमपि न सुसंभवमिति; तथापि यदि प्रकृतटीकाग्रन्थो ग्रन्थकृद्भन्थेष्वन्तिमतमः स्यात्, न प्रायशः किञ्चिद् बाधकमुत्पश्यामः पश्यामः पुनरिह साधकद्वयम् ; -- समस्तेऽपि प्रस्तुते मूलग्रन्थे सुगमतममध्येकं काव्यं टीकारहितमनुक्त्वा प्रतिस्तबकप्रान्तं गुर्वादिपरिचायकं जघन्यत एकमप्यनवद्यपद्यमनुक्त्वा च स्थितिमनादधता टीकाग्रन्थमेनं विदधतोपलब्धस्यापि किञ्चिद्रहस्यशालित्वेनावश्यटीकनीयस्याप्यन्त्यवृत्तत्रितयस्य वृत्त्यकरणान्यथानुपपादः, गुर्वादिप्रशस्तः सततमौचितीमञ्चति प्रन्धान्तभागे तदनुपादानाविनाभावश्च । साधकसिद्धिश्व प्रभूतेषु प्रत्ननूतनेष्वन्त्यमूलवृत्तत्रितयीविभूषितेष्वादर्शपुस्तकेष्वपि तदनुपलब्धिबलेन संभावितचरीह द्रष्टव्येत्यलं प्रपञ्चेन । अस्मिंश्च टीकाप्रकाण्डे कापि खण्डनीयत्वेन, क्वचित् संवादित्वेन, कुत्रापि प्रसङ्गदाधायकत्वेन च समुपन्यस्ता इतरे ग्रन्थकर्तारः, महतीं संख्यामा ख्यन्तो ग्रन्धाश्च बाढं परिचाययन्ति वाचकमस्तकावतंसकस्य टीकाकारस्यास्य परमवधिमधिगतं विविधविषयविषयकं सावगाहनं प्रतिभासाम्राज्यम्, संसाधयन्ति टीकाया एतस्या विषयकमनीयतां महत्त्वपूर्णत्वं च परिपुष्णन्तो विशेषतो जिज्ञासुभिरादरणीयताम्, द्रढयन्ति च निपुणतरमवलोकिना मैतिह्यप्रियाणां प्रागुपवर्णितग्रन्थप्रणेतृसत्तासमयविनिर्णयम् इति महोपयोगितामवधारयता नामनिर्देशं निर्दिष्टास्ते द्वितयेऽप्यक्षरा For Private & Personal Use Only प्रस्ता० ॥५॥ ainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy