________________
(M
किञ्च, 'रहस्य-पदाङ्कितास्तेन शतमेकं ग्रन्थाः प्राणायिषत इत्यपि श्रूयते । एतच्च यदि
"पूर्व न्यायविशारदत्वबिरुदं काश्यां प्रदत्तं बुधै
ायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् । शिष्यप्रार्थनया नयादिविजयप्राज्ञोत्तमानां शिशु
स्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥" इति तर्कभाषाया ग्रन्थकद्वाचमेव संवादरूपामनुभवद् भवेचेत् प्रमाणतासंसर्गि, शक्नोति भवितुम् । मा भूद् वा रहस्यपदलाञ्छितानां | शतस्य ग्रन्थानामियं संवादः, इतरसहकृतानां तु तेषां ग्रन्थकृत्कृतग्रन्थानां शतत्वं प्रमाणदायेन केन निरोढुं तीर्यते ।।
· दर्शितनामसु च पुस्तकेषु सर्वाणि गीर्वाणवाणीमलङ्कृतवन्ति, त्रिचतुराणि तु प्राकृतगाथाबद्धमूलान्यपि प्रायः संस्कृतस्वोपज्ञटीकाभिरन्वितानि । एतदतिरिक्तानि टीकाकाररचितानि गूर्जरभाषायामप्यनेकानि ग्रन्थरत्नानि स्तुति-चरित्र-विचारो-पदेशप्रभृतीन् विविध विषयान् पद्यबहुलेन ४ गद्येन सरसमुपवर्णयमानानि, यानि महात्मनोऽस्य संस्कृतादिभाषानभिज्ञजनोपकारकी करुणां देशभाषानुरागं च निवेदयितुं प्रभूष्णूनि, अद्यत्वेऽप्युपलभामहे ।
यद्यप्येतेषु टीकाकाररचितेषु संस्कृतप्राकृतग्रन्थेषु कतमश्चादिमः, कतमश्चान्तिम इति विभागशः प्रत्येकं पौर्वापर्येण विनिश्चयो न शक्यते
१ भाषारहस्यखोपज्ञवृत्ती प्रथमगाथापातनिकास्थम्-"रहस्यपदाहिततया चिकीर्षिताष्टोत्तरशतग्रन्थान्तर्गतप्रमारहस्य-स्याद्वादरहस्यादिसजातीयं प्रकरणमिदम्"। इतीदमुपजीव्य संभवतः परैरुक्तं शतकविधानं श्रुतिकर्म ।
ARROCHORRORSCRCAUSA
Jain Education
For Private & Personel Use Only
S
ainelibrary.org