SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ %A5%25 नुक्रमेण समुच्चित्य विष्वग्भावेनेहैवान्यत्र प्रकटीकृताः । ये पुनः परा-ऽपरा-ऽन्य-किमादिभिरभिधाभिम्रन्थकृता टीकाकृता च स्मृतिमनायिषत, ते स्पष्टतया विशेषवाच्यमनभिदधाना न तादृशीमावश्यकतामपेक्षांबभूवांस इत्युपेक्षांबभूवानाः । एवं च स्याद्वादकल्पलताविभूषितस्यैतस्य शास्त्रवार्तासमुच्चयस्य संशोधनकर्मणि व्याप्रियमाणः सटीकानि यान्यादर्शपुस्तकानि येषां महात्मनाPIमुपालप्सि, तानि, तेषां धन्यवादार्पणपूर्वकं नामानि च कृतज्ञतामुररीकुर्वाणः प्रकाशयामि; (१) प्रसेधकद्वारा राजनगर ( Ahmedabad ) स्थस्य "डेला"-भाण्डागारस्य संबन्धि, प्राचीनम् , शुद्धप्रायम् , द्वापञ्चाशत्पत्र्यात्मक मपूर्णम् , कसंज्ञितम् । (२) मुनिराजश्रीमद्बुद्धिसागराणाम् , पुरातनम् , नातिशुद्धम् , आदितः संपूर्णमपि प्रथमादर्शाप्राप्तस्थाननिवेशेन तत्संज्ञयैव परिभाषितम् । प्रान्तभागे "१५००० सर्वसंख्या लेकनपाटविमो कलाणमस्तु" इत्युल्लेखसमन्वितम् । (३) अस्मद्गुरुवर्यशास्त्रविशारदजैनाचार्यश्रीमद्विजयधर्मसूरीश्वराणाम् , नवीनम् , नात्यशुद्धम्, प्रथमतः प्रारभ्य द्विसप्ततिपत्रीरूपम् , खसंज्ञितम् । (४) पंन्यासश्रीवीरविजयगणीनाम् , न बढशुद्धम् , नवीनम् , परिपूर्णमपि तृतीयपुस्तकशेषांशस्थानापन्नतयोपरितनसंज्ञयैव परिगणितम् ।। "संवत् १९६० रा मिति ज्येष्ठवद ५ शनिवासरे प्रथमपौरे लिपीकृतम्" इत्यन्तभागोपन्यस्ताक्षरम् । (५) पंन्यासश्रीसिद्धिविजयगणीनाम् , प्रकाशकद्वारा संप्राप्तम् , नवीनम् , अशुद्धम् , संपूर्णम् , गसंज्ञितम् । (६) प्रकटयितद्वारा समासादितम् , नवीनम् , अशुद्धम् , घसंज्ञितम् ; प्रान्तभाग एतदुल्लेखाकितम् - "संवत् १९६१ ना वर्षे भादरवा सुदि ८ शनिश्चरे शुभं भवतु कल्याणमस्तु" इति । KOREGARAA 454G Jain Educa t ional For Private Personal Use Only X oww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy