SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता ।। ५८ ।।। • हेतवोऽस्य समाख्याताः पूर्व हिंसानृतादयः। तद्वान् संयुज्यते तेन विचित्रफलदायिना ॥ १०८॥ कीर्तिताः । समानप्रवृत्तिनिमित्तकत्वघटितपर्यायत्वं तु न सर्वत्रेति बोध्यम् ॥ १०७ ॥ कथमनेनाऽऽत्मा संयुज्यते १, इत्याह Jain Education Inter अस्य कर्मणः, पूर्व- “हिंसानृतादयः पञ्च" इत्यादिनिरूपणकाले, हिंसा ऽनृतादयो हेतवः समाख्याताः तद्वान् तत्क्रियाध्यवसायपरिणतः, विचित्रफलदायिना तेन कर्मणा, संयुज्यते- अन्योन्यसंबन्धेन बध्यते ॥ १०८ ॥ उक्तेषु वादेषु कः श्रेयान् १, इति विवेचयति - नेवं दृष्टेष्टबाधा यत्सिद्धिश्चास्याऽनिवारिता । तदेनमेव विद्वांसस्तत्त्ववादं प्रचक्षते ॥ १०९ ॥ एवम्– आत्मनः कर्मसंयोगे स्वीक्रियमाणे, न दृष्टेष्टबाधा - अमूर्तस्यापि मूर्तेन सहाऽऽकाशादौ संयोगस्य दर्शनात्, अमूर्तस्यापि ज्ञानस्य ब्राह्मी-घृतोपभोग-मद्यपानादिनाऽनुग्रहो-पघातयोरिष्टत्वाच्च; सिद्धिश्वाऽस्य- कर्मणः, उक्तदिशाऽनिवारिताप्रतितर्कावाधितमसरा । तत् तस्मात् कारणात् एनमेव प्रकृतवादमेव, विद्वांसः - मध्यस्थगीतार्थाः, तत्त्ववादं - प्रामाणिकाभ्युपगमं प्रचक्षते ॥ १०९ ॥ १ प्रकृतस्तबके श्लो० ४ । For Private & Personal Use Only सटीकः । ।। ५८ ।। ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy