SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ P-BUS TEP Poपव्वज्जा पायच्छित्तं भवंतरकडाणं, पावाणं कम्माणं" इति ग्रन्थकृतैवाऽन्यत्रोक्तत्वात् । अपि च, कर्मक्षयार्थितयैव मोक्षोपाये EA प्रवृत्तिाय्या, न तु दुःखध्वंसार्थितया, दुःखध्वंसस्य पुरुषप्रयत्नं विनैव भावात् । इत्यपि विवेचितं न्यायालोके । इत्यतोऽपि कर्मसिद्धिः । अपि च, लोकस्थितिरपि कर्माधीनैव, अन्यथा ज्योतिश्चक्रादेर्गुरुत्वादिना पातादिप्रसङ्गात् । न चेश्वराधीनैव, तस्य निरस्यत्वात् । इति किमतिविस्तरेण ?। मरीचिरुचैः समुदश्चतीयं जैनोक्तभानोर्यददृष्टसिद्धिः । निमील्य नेत्रे तदसौ वराकश्चार्वाकधूकः श्रयतां दिगन्तम् ॥ १ ॥१०६ ॥ ॥ इत्थं सिद्धमदृष्टम् ।। अथास्यैव दर्शनपरिभाषाजनितान् व्यञ्जनपर्यायानाहअदृष्टं कर्म संस्कारः पुण्यापुण्ये शुभाशुभे।धर्माधर्मों तथा पॉशः पर्यायास्तस्य कीर्तिताः१०७ 'अदृष्टम्' इति वैशेषिकाः । 'कर्म' इति जैनाः । 'संस्कारः' इति सौगताः । 'पुण्या-ऽपुण्ये' इति वेदवादिनः। 'शुभा| ऽशुभे' इति गणकाः । 'धर्मा-धौं' इति सांख्याः । 'पाशः' इति शैवाः । एवमेते तस्य- अदृष्टस्य, पर्यायाः-व्यञ्जनपर्यायाः, १ क. जनता पा'। २ क. ख, ग, घ, च 'स्काराः पु'। ३ क, ख, ग, घ. च 'शुभी'। ४ क, ख, ग, घ. च 'पाशाः प'। Jain Education Interational For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy