________________
सटीकः।
WER
शाखवार्ता-तरकारोबार
न्तरकृतगोवधादितोऽपि नरकानुत्पत्त्यापत्तेः । न च तत्तत्प्रायश्चित्तप्राग्वर्तिगोवधादिजन्यनरके तत्तत्मायश्चित्तध्वंसः, तथा प्राग-
जन्मकृतगोवधादितोऽपि नरकानुत्पत्त्यापत्तेः । 'तजन्मकृत-'इतिप्राग्वर्तिगोवधविशेषणे त्वप्रसिद्धिः' इत्यपास्तम् । न चाऽपूर्वा॥५७॥
ऽस्वीकारेऽङ्गप्रधानव्यवस्थानुपपत्तिः, प्रधानकथंताप्रवृत्तिविधिविधेयत्वादिनाऽङ्गत्वस्य सुवचत्वात्' इत्याहुः ।।
तदसत् , तक्रियोद्देशेनाऽन्यमायश्चित्ते कृतेऽपि फलानापत्तेः । तत्तत्मायश्चित्ताभावनिवेशात् तत्तत्प्रायश्चित्तविशिष्टाऽदत्तफलध्वंसातिरिक्तध्वंसस्य व्यापारत्वाद् वा नानुपपत्तिरिति चेत् । तथापि तत्त्वज्ञानिक्रियया भोगापत्तिः। तद्ध्वंसातिरिक्तत्वमपि निवेशनीयमिति चेत् । तथापि ध्वंसस्याऽनन्तत्वेन भोगानन्तत्वापत्तिः। चरमभोगानन्तरं व्यापारसत्वेऽपि प्रागभावाभावादेव न फलोत्पत्तिरिति चेत् । तर्हि प्रायश्चित्तस्थलेऽपि प्रागभावाभावादेव भोगानुत्पत्तिरिति किं तदभावादिनिवेशेन । प्रायश्चित्तविधिसामर्थ्य तु विजातीयप्रायश्चित्तानां विजातीयाऽदृष्टनाशकत्वमेवोचितम् , आगमाऽसंकोचात् , लाघवाच्च । एतेन चरमभोगप्रागभावविशिष्टोक्तध्वंसाधारतासंबन्धेन क्रियाहेतुत्वमप्यपास्तम् , विशेष्यविशेषणभावे विनिगमनाविरहाच । किञ्च, तक्रियाणां तत्तत्यायश्चित्तोद्देश्यत्वमपि तत्तत्क्रियाजन्यकर्मनाशेच्छाविषयतयैव सुष्टु निर्वहति, नान्यथा, इत्यतोऽप्यदृष्टसिद्धिः । | किश्च, प्राग्जन्मकृतानां नानाकर्मणां न योगोद्देश्यत्वमस्ति, न च ततस्तजन्यफलम् , इति योगरूपप्रायश्चित्तस्याऽदृष्टनाशकत्वं विना न निर्वाहः । न च योगात् कार्यव्यूहद्वारा भोग एवेति सांप्रतम् , नानाविधानन्तशरीराणामेकदाऽसंभवादिति । स्पष्टं न्यायालोके । न च योगस्य प्रायश्चित्तत्वस्वीकारे भवतामपसिद्धान्त इति वाच्य : “संवा वि य
क. 'स्वसि'। २ सर्वाऽपि च प्रव्रज्या प्रायश्चित्तं भवान्तरकृतानां पापानाम् , कर्मणाम् ।
॥ ५७॥
Join Education in
VAL
For Private & Personal Use Only
W
ww.anibrary