________________
तस्मात् तदात्मनो भिन्नं सच्चित्रं चात्मयोगि च।अदृष्टमवगन्तव्यं तस्य शक्त्यादिसाधकम् ॥
___ तस्मात्- उक्तहेतोः, तत्- नरादिवैचित्र्यप्रयोजकम्, आत्मनः सकाशात, भिन्न-पृथग द्रव्यभूतं न त्वात्मगुणरूपम् , सत्- पारमार्थिकं न तु कल्पनोपारूढम् , चित्रं- नानास्वभावं न त्वेकजातीयम् , आत्मयोगि- आत्मप्रदेशेषु क्षीर-नीरन्यायेनाऽनुप्रविष्टं, न त्वात्मनः कूटस्थात् पृथगेव विवर्तमानम् , सर्पकञ्चुकवदुपर्येव वा वर्तमानम् । चः समुच्चये । तेन प्रवाहतोऽनादित्वादि समुच्चीयते । तस्य आत्मनः, शक्त्यादेः पराभिमतशक्त्यादिपक्षस्य साधकं निर्वाहकम् , अदृष्टं-कर्म, अवगन्तव्यं-मूक्ष्मदृशा पर्यालोचनीयम् ।
अत्रोच्छ्रङ्खला नैयायिकाः- 'अस्तु तत्तत्क्रियाध्वंस एव व्यापारः, किमपूर्वेण । न चैवं क्रियायाः प्रतिबन्धकत्वव्यवहारापत्तिः, संसर्गाभावत्वादिना कारणीभूताऽभावप्रतियोगित्वेनैव तद्व्यवहारात् । न चैवं संस्कारोऽप्युच्छिद्येत , अनुभवध्वंसेनैवोपपत्तेः, उद्बोधकानां विशिष्य स्मृतिहेतुत्वेनाऽनतिप्रसङ्गादिति वाच्यम् । इष्टत्वात् । न चैवं प्रायश्चितितादिकर्मणोऽपि फलापत्तिः, प्रायश्चित्ताद्यभाववत्कर्मत्वेन कारणत्वात् । न चैवं दत्तादत्तफलोद्देश्यकप्रायश्चित्ते कृते प्रतियोगिनि तत्प्रायश्चित्तस्य निवेशे दत्तफलादपि फलं न स्यात् , अनिवेशे चादत्तफलादपि फलं स्यादिति वाच्यम् । अदत्तफलनिष्ठोद्देश्यतया तदभावस्य वाच्यत्वात् । एतेन 'प्रायश्चित्तं न नरकादिप्रतिबन्धकम् , आशुविनाशित्वेन तदुत्पत्यवारकत्वात् । नापि तद्ध्वंसा, प्रायश्चित्तान
१ तदा नरकादिपरामर्शः ।
POORमटर
For Private Personal Use Only
Jain Education intestinal
HEEww.jainelibrary.org