________________
शास्त्रवार्ता -
॥ ५६ ॥
Jain Education Int
बोधमात्रस्य - अविशिष्टज्ञानस्य तद्भावे - वासनात्वे 'अङ्गीक्रियमाणे' इति शेषः, ज्ञानमत्रासितं नास्ति, सर्वस्यैव ज्ञानस्य वासनारूपत्वात् । ततः सदैवावासितज्ञानसद्भावाद् मुक्तिः स्यात् । अथ विशिष्टं ज्ञानं वासना स्वीकरिष्यते, इत्यत्राह - केवलस्य- अविशेषितज्ञानस्य, वैशिष्ट्यं नः विशेषकस्वीकारे चोक्तवत् तदेवाऽदृष्टमिति भावः । अथ क्षणिकतत्तज्ज्ञानश्वाहरूपा वासना, अतो नानुपपत्तिरिति चेत् । न त्वदीयज्ञानेन बुद्धस्यापि वासनापत्तेः । एकसंतानगामित्वेन विशेषाद् नानुपपत्तिरिति चेत् । न, क्षणपरम्परातिरिक्तसंतानस्वीकारे द्रव्याभ्युपगमप्रसङ्गात्, अन्यथा चातिप्रसङ्गापरिहारादिति स्फुटी भविष्यत्यये ॥ १०४ ॥ उपसंहरन्नाह
एवं शक्तयादिपक्षोऽयं घटते नोपपत्तितः । बन्धाद् न्यूनातिरिक्तत्वे तद्भावानुपपत्तितः॥१०५॥
एवं उक्तदिशा, अयं प्रागुपन्यस्तः, शक्त्यादिपक्ष:- शक्ति वासनयोर दृष्टमवादः, उपपत्तितः- युक्तेः, न घटते । उपपत्तिव प्रतिस्वं प्रागुक्तैव । तामेव साधारणीकृत्याह - बन्धात् सकाशात् न्यूनत्वे किञ्चिद्रन्धवदवृत्तित्वे, अतिरिक्तत्वे च- बन्धाभाववद्वृत्तित्वे सति तद्भावानुपपत्तित:- अप्रसङ्गाऽतिप्रसङ्गाभ्यां बध्य-बन्धनीय भावाऽव्यवस्थाप्रसङ्गाद्धेतोः । शब्दभङ्गया प्रागुक्तदोषस्मरणमात्रमेतदिति ध्येयम् ॥ १०५ ॥
ततः किम् ?, इत्याह
१ त्वदीयं सुगतशिष्य संबन्धि ।
२ सुगतस्य ।
For Private & Personal Use Only
सटीकः ।
॥ ५६ ॥
ww.jainelibrary.org