________________
वासनाऽप्यन्यसंबन्धं विना- वास्यातिरिक्तयोगं विना, नैवोपपद्यते । कुतः ?, इत्याह- पुष्पादिगन्धवैकल्ये यतस्तिलादौ वासना नेष्यते । एवं च वासना वास्यातिरिक्तसंबन्धजन्यति नियमः सिद्धः ॥ १०२ ॥
ततः किम् ?, इत्याहबोधमात्रातिरिक्तं तद्वासकं किञ्चिदिप्यताम्।मुरयं तदेव वः कर्मन युक्ता वासनान्यथा॥१०॥
बोधमात्रातिरिक्तम्-वास्यज्ञानभित्रम्, तत् तस्मात्, नियमान किश्चिद् वासकामिप्यताम् , तदेव- इष्यमाणम्, वः- युष्पार्क, | मुख्य-वस्तुसत् , कर्माऽस्तु । अन्यथा-परमार्थसदतिरिक्त कर्माऽखीकारे, वासना न युक्ता । न ह्यसत्ख्यात्युपनीतादृष्टभेदानko हाज्ज्ञानवासनेत्यभ्युपगमः प्रामाणिकः, तैलादिगन्धेषु पुष्पादिगन्धभेदाग्रहेऽपि तद्वासनापत्तेः। न च तैलादिवासनाविलक्षणैव
ज्ञानवासनोक्तस्वरूपा, अतो नानुपपत्तिरिति वाच्यम् । तथापि ज्ञानेऽदृष्टभेदग्रहाद् वासनानिवृत्येदानी मुक्तिप्रसङ्गात् । औत्तरकालिकभेदाग्रहमयोजकदोषसत्त्वाद् नेदानी तन्नित्तिरिति चेत् । तर्हि दोषाभावविशिष्टभेदग्रहाभाचो वासनेति फलितम् , दोपश्च तत्र वासनैवेत्यात्माश्रयः । किश्च, एतादृशवासनापेक्षयाऽवश्यकल्पनीयाऽदृष्ट एवापामाणिकत्वकल्पनापेक्षया प्रामाणिकत्वकल्प| नमुचितमिति परिभावनीयम् ॥ १०३ ।।
इदमेवाभिप्रेत्याहबोधमात्रस्य तद्भावे नास्ति ज्ञानमवासितम्। ततो मुक्तिः सदैव स्याद्वैशिष्टयं केवलस्य न॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org