SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातो ।। ५५ ।। Jain Education Intern यत्र सा शक्तिः अन्या च शक्तिः, या क्रिययाऽभिव्यज्यते; अन्यच्च कर्म, यदावरणरूपं तदा नश्यति ; इति त्र्यसिद्धावपि कर्मणो नाऽसिद्धिरित्यभ्युच्चयः; शाश्वतशक्तेरात्माऽनतिरेकान द्वयमेव वा पर्यवस्यति । वस्तुतः सा शक्तिर्यदि तदैव क्रिययाऽभिव्यज्यते, तदा तदैव स्वर्गोत्पत्तिः स्यात् ; यदि च क्रियाजन्यावरणध्वंससहकृता कालन्तर एव सा फलजननी स्वीक्रियते, तदा किमेतावत्कुष्टा, तज्जन्यधर्मस्यैव स्वविपाककाले फलजनकत्वौचित्यात् ? इति स्मर्तव्यम् ॥ १०० ॥ इदमेवाह पापं तद्भिन्नमेवास्तु क्रियान्तरनिबन्धनम्। एवमिष्टक्रियाजन्यं पुण्यं किमिति नेष्यते ॥ १०१ ॥ तत्- आवारकत्वेनाऽभिमतं क्रियान्तरजन्यमशुभ क्रियानिमित्तकं, पापं भिन्नमेव- शक्त्यतिरिक्तमेव, अस्तु । इति चेत् । एवम् - अशुभक्रियाजन्यपापवत्, इष्टक्रियाजन्यं विहितक्रियानिमित्तकं पुण्यं किमिति - कुतो हेतोः, नेष्यते, एकैकाभावेनैकान्यथासिद्धावविनिगमात् ? इति भावः ।। १०१ ।। 'वासनैवम्' इति द्वितीयपक्षं निराकर्तुमाह वासनाऽप्यन्यसंबन्धं विना नैवोपपद्यते । पुष्पादिगन्धवैकल्ये तिलादौ नेप्यते यतः॥१०२॥ १ आत्म-शक्ति-क्रियारूपं त्रयम् । २ ' नेते' इति मौलपुस्तकः पाठः, ज्यायांश्च । For Private & Personal Use Only सटीकः । ।। ५५ ।। www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy