________________
अस्तु तर्हि अजन्यवाऽदृष्टरूपा शक्तिः, इत्यनूयाह-- अस्त्येव सा सदा किन्तुक्रियया व्यज्यतेपरम्। आत्ममात्रस्थितायानतस्या व्यक्तिःकदाचन
सा- अदृष्टरूपा शक्तिः, सदाऽस्त्येवः किन्तु पर- केवलम् , क्रियया-सुपात्रदानादिकया, व्यज्यते- फलप्रदानयोग्या क्रियते, 'न तु जन्यते' इति 'परम्' इत्यनेन स्पष्टीक्रियते । नैवं वाच्यम् , यत आत्ममात्रस्थितायाः- अनाहकवरूपकि व्यवस्थितायाः, तस्याः शक्तः, न-नैव, व्यक्तिः- आवरणनिवृत्तिरूपा, कदाचन जातुचित् ॥ ९९ ॥
कथम् ?, इत्याहतदन्यावरणाभावाद भावे वास्यैव कर्मता।तन्निराकरणाद् व्यक्तिरिति तद्भेदसंस्थितिः१००
___ तस्याः शक्तेरन्यस्याऽऽवरणस्याभावात्- अनावृतायाः शक्तरावरणमेव नास्ति, किं तर्हि क्रियया तत्र निवर्तनीयम् , ARI सतो नित्यनिवृत्तत्वात् । तथा च का नामाऽऽवरणनिवृत्तिरूपा व्यक्तिस्तत्र क्रियया क्रियताम् ? इत्याशयः। अथ यदि शाश्वत्यास्तस्याः शक्तेः कार्यान्तरं प्रत्यनावृतत्वेऽपि प्रकृतफलप्रदानाभिमुख्याभावात् तत्राऽऽवृतत्वम् , इत्यर्धजरतीयं स्वीक्रियते । तदाप्याह- भावे वा- तदन्यावरणाङ्गीकारे वा, अस्यैव- आवरणत्वेनाङ्गीकृतस्यैव, कर्मता; यतस्तस्याऽऽवरणस्य निराकरणात् , व्यक्तिः शक्तः, इति तयोः शक्तया ऽऽत्मनोः सकाशाद् भेदसंस्थितिः- भेदमर्यादा 'अस्ति' इत्यनुषज्यते । एवं चान्य आत्मा,
१ क. 'तेऽपीति'।
STOCOGEOR
Jain Education int ona
For Private & Personel Use Only
EUnrwww.jainelibrary.org