________________
शास्त्रवार्ता-
॥५४॥
अन्ये त्वभिदधत्यत्र स्वरूपनियतस्य वै।कर्तुविनान्यसंबन्धं शक्तिराकस्मिकी कुतः१॥९७॥ । सटीकः ।
अन्ये तु-प्रावचनिकाः, अत्र विचारे, एवमभिदधति । किम् ?, इत्याह-वै-निश्चितम् , स्वरूपेणाऽऽत्मत्वेन नियतस्याविशिष्टस्य कर्तुः, अन्यसंबन्धम्- आत्मातिरिक्तहेतुसंबन्धं विना, शक्तिराकस्मिकी- अकस्मादुत्पत्तिका सती, कुत:कथं भवेत?-न कथञ्चिदित्यर्थः। 'शक्तियेयात्ममात्राऽजन्यत्वे सति तदतिरिक्ताऽसाधारणकारणजन्या न स्यात, जन्या न स्यात्' इत्यापादनं बोध्यम् ।। ९७ ॥
अत्र विशेषासिद्धिमाक्षिप्य परिहरतितक्रियायोगतः सा चेत्तदपुष्टौ न युज्यते । तदन्ययोगाभावे च पुष्टिरस्य कथं भवेत् ?९८
तस्याऽऽत्मनः क्रिया सुपात्रदानादिका तस्या योगतः संबन्धात् , सा शक्तिः, तथा चात्मातिरिक्ताऽसाधारणकारणजन्यत्वमेव, इति चेत् । तस्याऽऽत्मनोऽपुष्टौ सत्यनुपचये सति, न युज्यते 'क्रियाजन्या शक्तिः' इति शेषः, यथा मृदः पुष्टावेव घटादिजनिका शक्तिर्भवति, तथाऽऽत्मनोऽपि पुष्टावेव सुखादिजनिका शक्तिः स्यात् , न त्वन्यथेति भावः । अस्तु तर्हि पुष्टिः, इत्यत आह- तया क्रिययाऽन्येषां कर्माणूनां योगाभावे बन्धविरहे, अस्य- आत्मनः, पुष्टि:- उपष्टम्भकाणुसंवेधरूपा, कथं भवेत् । एवं च पुष्टिहेतुतया कर्मसिदिरावश्यकीत्याशयः । यद्यपि पुष्टिरन्यत्र स्थौल्य एवोपयुज्यते, तथापि क्रियया न हेतुशक्त्याधानम् , हेतुमात्रे तत्मसङ्गात् ; आत्मन्येव तदाघाने तु कर्मण एव नामान्तरं तदित्यभिप्रायः ॥ ९८॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org