SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ हकवैचित्र्यशालि, मतम्- अङ्गीकृतम् , 'पारगतागमवेदिभिः' इति शेषः। 'तत्र पौद्गलिकत्वे इदमनुमानम् - अदृष्टं पौद्गलिकम, आत्मानुग्रहो-पघातनिमित्तत्वात् , शरीरवत् । न चाप्रयोजकत्वम् , 'कार्यैकार्थप्रत्यासत्या तस्य सुखादिहेतुत्वे त्वैनीत्याऽसमवायिकारणत्वप्रसङ्गात्' इति वदन्ति । वस्तुतो धर्मा-धर्मयोर्मानसप्रतिबन्धकत्वादिकल्पनापेक्षया नात्मधर्मत्वमेव कल्पनीयम् , इत्यादिकं ज्ञानार्णवेऽनुसंधेयम् । तद्वैचित्र्यमपि बन्धहेतुत्ववैचिव्येऽपि संक्रमकरणादिकृतं परिणतप्रवचनानां सुज्ञानमेव । परेषामपि कीर्तनादिनाश्यतावच्छेदकं वैजात्यमावश्यकमेव, अश्वमेध-वाजपेयादिघटितस्य गुरुत्वात् , सुखवैजात्यघटितेनाऽविनिगमाच्च ; समूहालम्बनकीर्तनाचोभयोरेव वैजात्यावच्छिन्नयो शः; अन्यथा प्रत्येकनोंश्यनाशप्रसङ्गात् , तत्र किश्चित्पतिबन्धकादिकल्पने गौरवाच । इति किमिहाऽप्रकृतपरगृहविचारप्रपञ्चेन ? ॥९५॥ अत्रैवाऽन्येषां वार्तान्तरमाहशक्तिरूपं तदन्ये तु सूरयः संप्रचक्षते। अन्ये तु वासनारूपं विचित्रफलदं तथा ॥९६॥ तत्- अदृष्टम् , अन्ये तु सूरयः शक्तिरूपं- कर्तुः शक्त्यात्मकम् , संप्रचक्षते- व्यावर्णयन्ति । तु- पुनः, तेभ्योऽप्यन्ये वासनारूपं तत् , विचित्रफलदं- नानाविधफलजनकं, तथा- उक्तवत् , संप्रचक्षते ॥ ९६ ॥ तत्र माच्यपक्षदूषणप्रकारं वृद्धावादेनाह पारगतो भगवानहन् । २ क. 'वभीया'। ३ क. ख. ग. 'मेधादि'। ४ ख. 'नाश'। BBB-SETTERSNथामसनमारकरारदार Sear Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy