________________
शास्त्रवातो
सटीकः।
॥५३॥
भूतपदस्याऽगृहीतविशेषस्योपादाने उत्तरमेव वैतत् , इति स्वाभिप्रायादाहकर्मणो भौतिकत्वेन यद्वैतदपि सांप्रतम्।आत्मनो व्यतिरिक्तं तच्चित्रभावं यतो मतम्॥९५॥
कर्मणः- अदृष्टस्य, भौतिकत्वेन- पौद्गलिकत्वेन, एतदपि- 'भूतानां तत्स्वभावत्वात् फलभेदः' इत्युत्तरमपि, 'यद्वा' इति प्रकारान्तरे, सांप्रतं- समीचीनम् ।
नन्विदमसंगताभिधानम् , 'भोगनिर्वाहकस्याऽऽत्मधर्मस्यैवाऽदृष्टस्य कल्पनात् , तदुक्तम्- "संभोगो निर्विशेषाणां न भूतैः संस्कृतैरपि" इति । तथा, चित्रस्वभावत्वमप्यदृष्टस्याऽनुपपन्नम् , तद्वैजात्ये मानाभावात् । तत्सत्वे कर्मणां विशिष्याऽदृष्टहेतुत्वे गौरवाच्च । न च कीर्तननाश्यतावच्छेदकतया तत्सिद्धिः, तत्र दृष्टत्वस्य स्वाश्रयजन्यताविशेषसंवन्धेनाऽश्वमेधत्वादिघटितस्य वा तथात्वात् । अन्यथा 'मयाऽश्वमेध-वाजपेयो कृतौ, मया वाजपेय-ज्योतिष्टोमी कृतौ' इत्यादिकीर्तननाश्यतावच्छेदकजातिसिद्धौ सांकर्यस्यापि संभवात् । अस्तु वा तत्कीर्तनाभावविशिष्टतत्तत्कर्मत्वेन हेतुत्वम् , अतो न समूहालम्बनहरिगङ्गास्मरणजन्याऽपूर्वस्य गङ्गास्मृतिकीर्तनाद् नाशे हरिस्मृतेरपि फलानापत्तिः, तज्जन्यापूर्वयोरेकस्य नाशेऽप्यपरस्य सत्त्वे गङ्गास्मृतेरपि वा फलापत्तिः' इति नैयायिकमतसाम्राज्यात् । इत्यत आह
यद्- यस्मादेत्तोः, तत्- कर्म, आत्मनो व्यतिरिक्तं-भिन्नद्रव्यतया व्यवस्थितम् । तथा, चित्रभावं-फलवैचित्र्यनिर्वा, कुसुमाञ्जलौ प्रथमस्तवके कारिका ९ ।
हाहाsetoreoleOC
॥५३॥
Jan Educh an intemeias
For Private & Personal Use Only
www.jainelibrary.org