SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Jain Education In इदमेवाभिप्रेत्याह तस्मादवश्यमेष्टव्यमत्र हेत्वन्तरं परैः । तदेवादृष्टमित्याहुरन्ये शास्त्रकृतश्रमाः ॥ ९३ ॥ तस्मात् - तुल्येऽप्यारम्भे फलभेददर्शनात्, अत्र फलभेदनिमित्तं परैश्चार्वाकैः, हेत्वन्तरमवश्यमेष्टव्यम् - अनायत्या नियमेनाऽङ्गीकार्यम् । तदेव हेत्वन्तरम्, शास्त्रकृतश्रमाः- अध्ययन-भावनाभ्यां गृहीतशास्त्रतात्पर्याः, अन्ये- आस्तिकाः, अदृष्टमाहुः । तथा चाह भगवान् भाष्यकार: ""जो तुलसाहणाणं फले विसेसो, न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो ब्व, हेऊ अ से कम्मं ॥ १ ॥ | " इति ॥ ९३ ॥ पराकूतमाशङ्कय निराकुरुते - भूतानां तत्स्वभावत्वादयमित्यप्यनुत्तरम् । न भूतात्मक एवात्मेत्येतदत्र निदर्शितम् ॥९४॥ भूतानां राजादिपरिणतभूतानाम्, तत्स्वभावत्वात् - विचित्र भोग हेतुस्वभावत्वात्, अयं - फलभेदः, इत्यपि - चार्वाकोक्तम्, अनुत्तरम् - उत्तराभासः । कुतः १, इत्याह- 'यतः' इति शेषः, 'भूतात्मक एवात्मा न' इत्येतत्, अत्र - पूर्वप्रघट्टके, निदर्शितं - व्यवस्थापितम् ; आत्मस्वभावभेदश्चाष्टाधीन इति भावः ॥ ९४ ॥ १ यस्तुल्यसाधनानां फले विशेषः, न स विना हेतुम् । कार्यत्वतो गौतम ! घट इव हेतुश्च तस्य कर्म ॥ १ ॥ २ विशेषावश्यकभाष्ये द्वितीयस्मिन् गणधरवादे गाथा ८ | For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy