SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सटीकः। शास्त्रवार्ता-मन, शरीरसंयोगस्याऽऽकाशादावपि सवेन तत्रापि भोगापत्तेः । उपष्टम्भकसंयोगेन शरीरस्य भोगनियामकत्वे तु तादृशसंयोग प्रयोजकतयैवाऽदृष्टसिद्धेः ॥ ९१ ॥ ॥५२॥ __अपरथाऽपि कार्यवैचित्र्यमाह[ तथा तुल्येऽपि चारम्भे सदुपायेऽपि यो नृणाम्। फलभेदः, स युक्तो न युक्त्या हेत्वन्तरं विना। तथा, तुल्येऽपि च- समानेऽपि च, आरम्भे-कृष्यादिप्रयने, सदुपायेऽपि- अकुण्ठितशक्तिकतदितरयावत्कारणसहितेऽपि, नृणां- चैत्र-मैत्रादीनाम् , फलभेदः धान्यसंपत्ति-असंपत्तिरूपः, स्वल्प-बहुधान्यसंपत्तिरूपो वा यः, स युक्त्या 'विचार्यमाणः' इति शेषः, हेत्वन्तरम्- क्लुप्तकारणाऽतिरिक्तकारणं, विना न युक्तः । अथाऽऽद्यमवृत्ताववैषम्येऽप्युत्तरकालं सामग्रीवैपम्यादेव कार्यवैषम्यमिति चेत् । न, सामग्रीवैषम्यस्यापि हेत्वन्तराधीनत्वात् ।। अथवा, समानेऽप्यारम्भे- एकजातीयदुग्धपानादौ, यः फलभेदः-पुरुषभेदेन सुख-दुःखादितारतम्यलक्षणः, स हेत्वतरं विना- अतिरिक्तहेतुतारतम्यं विना, न युक्त इत्यर्थः । न चावापि कचिद् दुग्धादेः कर्कव्यादिवत् पित्तादिरसोद्धोधादुपपत्तिः, सर्वत्र तदापत्तेः । न च भेजपवत् तथा, ततः साक्षात् सुखादितौल्यात् , धातुवैषम्यादरुत्तरकालत्वात् : पित्तादिरसोरो ध्यधातुवैषम्यादिविरहितदुग्धपानत्वादिना सुखादिहेतुत्वे गौरवात् , अदृष्टप्रयोज्यजातिव्याप्यजात्यवच्छिन्नं प्रत्येव दुग्धपानादेRO हेतुत्वौचित्याचेति दिग् ॥ ९२ ॥ ॥५२॥ JainEducationa l For Private Personal use only STww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy