________________
सटीकः।
शास्त्रवार्ता-मन, शरीरसंयोगस्याऽऽकाशादावपि सवेन तत्रापि भोगापत्तेः । उपष्टम्भकसंयोगेन शरीरस्य भोगनियामकत्वे तु तादृशसंयोग
प्रयोजकतयैवाऽदृष्टसिद्धेः ॥ ९१ ॥ ॥५२॥
__अपरथाऽपि कार्यवैचित्र्यमाह[ तथा तुल्येऽपि चारम्भे सदुपायेऽपि यो नृणाम्। फलभेदः, स युक्तो न युक्त्या हेत्वन्तरं विना।
तथा, तुल्येऽपि च- समानेऽपि च, आरम्भे-कृष्यादिप्रयने, सदुपायेऽपि- अकुण्ठितशक्तिकतदितरयावत्कारणसहितेऽपि, नृणां- चैत्र-मैत्रादीनाम् , फलभेदः धान्यसंपत्ति-असंपत्तिरूपः, स्वल्प-बहुधान्यसंपत्तिरूपो वा यः, स युक्त्या 'विचार्यमाणः' इति शेषः, हेत्वन्तरम्- क्लुप्तकारणाऽतिरिक्तकारणं, विना न युक्तः । अथाऽऽद्यमवृत्ताववैषम्येऽप्युत्तरकालं सामग्रीवैपम्यादेव कार्यवैषम्यमिति चेत् । न, सामग्रीवैषम्यस्यापि हेत्वन्तराधीनत्वात् ।।
अथवा, समानेऽप्यारम्भे- एकजातीयदुग्धपानादौ, यः फलभेदः-पुरुषभेदेन सुख-दुःखादितारतम्यलक्षणः, स हेत्वतरं विना- अतिरिक्तहेतुतारतम्यं विना, न युक्त इत्यर्थः । न चावापि कचिद् दुग्धादेः कर्कव्यादिवत् पित्तादिरसोद्धोधादुपपत्तिः, सर्वत्र तदापत्तेः । न च भेजपवत् तथा, ततः साक्षात् सुखादितौल्यात् , धातुवैषम्यादरुत्तरकालत्वात् : पित्तादिरसोरो
ध्यधातुवैषम्यादिविरहितदुग्धपानत्वादिना सुखादिहेतुत्वे गौरवात् , अदृष्टप्रयोज्यजातिव्याप्यजात्यवच्छिन्नं प्रत्येव दुग्धपानादेRO हेतुत्वौचित्याचेति दिग् ॥ ९२ ॥
॥५२॥
JainEducationa l
For Private Personal use only
STww.jainelibrary.org