________________
यः कर्मभेदानां ज्ञानावरणादीनां, कर्ताः कर्मफलस्य सुख-दुःखादेच, भोक्ता; तथा, संसर्ता- स्वकृतकर्मानुरूपनरकादिगतिगामी तथा, परिनिर्वाता- कर्मक्षयकारी; हि-निश्चितम् , स आत्मा नाऽन्यलक्षणः- पराभिमतकूटस्थादिरूपः । कर्तृत्वादिकं च नानित्यस्योपपद्यते, कार्यसमये नश्यतो हेतोः कार्याजनकत्वात् ; अन्यथा कालान्तरेऽपि कार्योत्पत्तेः प्रसजात्, इति न त्वंदुक्तं मन एवाऽऽत्मा, किन्त्वन्य एव विज्ञानघनः शाश्वत इति सिद्धम् ॥९॥
नित्यत्वे कथमस्य वैचित्र्यम् ?, इत्यत आहआत्मत्वेनाविशिष्टस्य वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तच्चित्रमदृष्टं कर्मसंज्ञितम्॥९१॥
____ आत्मत्वेनाऽविशिष्टस्य- एकजातीयस्य, तस्य- आत्मनः, नरादिरूपं वैचित्र्यं वैलक्षण्यम् , यशात्- यस्माद्धेतो, तच्चित्रं KO कार्यवैचित्र्यानर्वाहकविचित्रशक्तिकलितम् , कर्मसंज्ञितं- कर्मापरनामकम् , अदृष्टं सिध्यति । न च नरत्वादिवैचित्र्यं नरगत्या
द्यर्जकक्रिययैव प्राग्भवीययोपपाद्यताम् , किमतगडुनाऽदृष्टेन ? इति वाच्यम् ; व्यवहितहेतोः फलपर्यन्तव्यापारव्याप्यत्वावधारणात् । तदिदमुक्तं न्यायाचार्यैरपि- "चिरध्वस्तं फलायाऊल न कर्माऽतिशय विनों" इति । अथ नरादिशरीरवैचित्र्यं तदुपादानवैचित्र्यादेव, भोगवैचित्र्यं च शरीरवैचित्र्यात् , शरीरसंयोगश्चाकाशादाविवाऽत्मन्यपि, इत्यदृष्टं कोपयुज्यताम् ?, इति चेत् ।
१ सौगतोक्तम् । २ कुसुमाञ्जलौ प्रथमस्तबके कारिका ९ ।
Brerolates
Jain Education in
Jww.jainelibrary.org
For Private & Personal Use Only
al