________________
शास्त्रवार्ता
॥ ५१ ॥
Jain Education Intel
अत्रैव प्रसङ्गेन वार्तान्तरमाह
अत्रापि वर्णयन्त्येके सौगताः कृतबुद्धयः । क्लिष्टं मनोऽस्ति यन्नित्यं तद्यथोक्तात्मलक्षणम् ८८
अत्रापि - आत्मसिद्धावपि कृतबुद्धयः- चार्वाकापेक्षया परिष्कृतधियः, एके सौगता वर्णयन्ति । किम् ?, इत्याहक्लिष्टं - क्लेशविशिष्टं न तु बाह्याकारं, यद् नित्यं मनोऽस्ति तद् यथोक्ताऽऽत्मलक्षणम्- अहंप्रत्ययालम्बनाऽऽत्मव्यपदेशभाक् ॥८८॥
अत्र नित्यत्वं तद्भावेनाऽव्ययत्वम्, क्षणविशेरारुपरिणामप्रवाहपतितत्वं वा इति विकल्प्य दूषयति
यदि नित्यं तदात्मैव संज्ञाभेदोऽत्र केवलम् । अथानित्यं ततश्चेदं न यथोक्तात्मलक्षणम् ॥८९॥
यदि त्वदभ्युपेतं मनो नित्यं तद्भावेनाऽव्ययम्, तदाऽऽत्मैव तत् ; अत्र - अस्मिन् वादे, केवलं संज्ञाभेदः - न त्वर्थभेदः । अथाऽनित्यम्- द्रव्यतयाऽपि नश्वरम्, 'तदा' इति प्राक्तनमानुषज्यते, ततश्च - अनित्यत्वाच्च, इदं मनः, न यथोक्ता|त्मलक्षणम् - युक्त्या - Sऽगमाभ्यां यादृशमात्मनो लक्षणं सिद्धं तद्वद् नेत्यर्थः ॥ ८९ ॥
आत्मलक्षणमेवाह
यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता स ह्यात्मा नान्यलक्षणः ॥९०॥
१ विशृणाति तच्छीलो विशरारुविनाशीत्यर्थः । २ त्वच्छन्दस्तथागततनयावाचकः ।
For Private & Personal Use Only
सटीकः ।
॥ ५१ ॥
www.jainelibrary.org