________________
ST
सकस
र्यानुत्पत्तेः । न च तंत्र ज्ञातताभ्रम एव, बाधकाभावात् । तत्र स्वरूपसंबन्ध एव ज्ञाततेति चेत् । विद्यमानेऽपि स एवाऽस्तु । त्वयाऽपि ज्ञानेन ज्ञाततानियमार्थमवश्यं तस्य स्वीकर्तव्यत्वात् , समवायेन ज्ञाततायां विषयतया ज्ञानस्य हेतुत्वात् । कर्मत्वमपि विद्यमाने घटेऽतीतघट इव गौणमेवेति ।
___ अस्तु वा ज्ञातता, तथापि न तया ज्ञानानुमानसंभवः, ज्ञातताया विषयनिष्ठत्वात् , ज्ञानस्य चाऽऽत्मनिष्ठत्वात् । अथ समवायेन घटप्रत्यक्षं संबन्धविशेषेण घटप्राकट्यं स्वसमानाधिकरणं जनयति, इति तेन तेदनुमानम् । अत एव तदीयप्राकट्यस्य नाऽन्येन ज्ञानम् , विषयतया तदीयप्राकट्यप्रत्यक्षे तादात्म्येन तदीयप्राकट्यस्य हेतुत्वादिति चेत् । न, तथाऽप्यनुमित्यादेरासिदयापत्तेः, परोक्षज्ञानेमाकव्यस्यापि पदार्थान्तरस्य स्वीकारापत्तेश्च । न च प्रवृत्त्यादिना तेदनुमानम् , लिङ्गाऽननुगमस्याऽदोपत्वादिति वाच्यम् , प्रवृत्त्यादेरिव ज्ञानस्य प्रत्यक्षत्वे वाधकाभावात् ; बाह्यार्थवत् कर्मत्वानवभासस्य क्रियात्वेनाऽनुवेधादुपपत्तेः इति किमप्रस्तुतेन ।
आत्मसिद्धेः परं शोकाल्लोकाः! लोकायताऽऽननम् । समालोकामहे म्लानं तत्र नो कारणं वयम् ॥ १॥ ८७ ॥
॥ इति चार्वाकमतनिरासः ॥ १ तत्र-- अतीत घटे । २ घटविशेषणमिदम् । ३ तदा स्वरूपसंबन्धः । ४ मीमांसकेन । ५ ज्ञानानुमानम् ।
Jain Education
a
l
For Private
Personel Use Only
www.jainelibrary.org