________________
शाखवाता
सटीकः।
॥५०॥
हलवकर
सानुत्पत्त्यर्थमप्येतत्प्रतिबन्धकादृष्टकल्पनात् सुषुप्तौ तेनैव ज्ञानानुत्पत्तिप्रतिवन्धोपगमौचित्याच । किञ्च, ज्ञानज्ञानादौ विषया- न्तरसंचारस्य प्रतिबन्धकत्वकल्पने गौरवात् , ज्ञानस्येन्द्रियाग्राह्यत्वकल्पनात् , स्वसंविदित-तत्पतिबन्धकदोषकल्पनागौरवमपि फलमुखत्वाद् न बाधकमिति दिग् ॥८६॥
उपसंहरनाहअतःप्रत्यक्षसंसिद्धः सर्वप्राणभृतामयम्। स्वयंज्योतिः सदैवात्मा तथा वेदेऽपि पठ्यते॥८॥ | अत:- अहंप्रत्ययस्याऽभ्रान्तत्वात, अयम्- आत्मा, सर्वप्राणभृतां प्रत्यक्षसंसिद्धः- प्रत्यक्षप्रमाणविषयः । न केवलमिदमनुभवगर्भया युक्त्यैव ब्रूमः, किन्तु परेषामागमोऽप्यत्रार्थे साक्षी; इत्याह-तथा- अनुभवानुसारेण, वेदेऽपि आत्मा सदैव स्वयंज्योतिः- स्वसंविदितज्ञानाभिन्नः, पठ्यते- “आत्मज्योतिरेवाऽयं पुरुषः" इति । एतेन वेदप्रामाण्याभ्युपगन्तृणां ज्ञानपरोक्षत्ववादिनां मीमांसकानां मतमपहस्तितम् , अपरोक्षत्वे ज्ञानस्यैवासिद्धः। न च ज्ञाततालिङ्गेन तदनुमानम् , तेस्या एवाऽसिद्धेः। न च घटादेः कर्मत्वान्यथानुपपत्त्या तत्सिद्धिः, क्रियाजन्यफलशालित्वं हि तैत्, न च घटे ज्ञानजन्यमन्यत् फलमस्तीति वाच्यम् , एवं सति 'इष्टो घटा, कृतो घटः' इत्यादिप्रतीतेरिष्टता-कृततादेरपि सिद्धिप्रसङ्गात् ।
किञ्च, 'अतीतो घटो ज्ञातः' इत्यादौ तदसंभवः, न ह्यतीते घटे ज्ञाततोत्पत्तिसंभवः, समवायि कारणं विना भावका। तच्छब्देन ज्ञानं गृह्यते । २ तस्या जाततायाः । ३ तत्- कर्मस्वम् ।
Re
॥५०॥
R
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org