________________
तत्वात् , 'उपपाद्यमानायाम्' इति शेषः, हि निश्चितम् , एवम्- 'अहं जाने' इत्याद्युल्लेखेन, सदैव सुषुप्त्यादावपि, अग्रहणम्अपतिसंधानम् , कर्मदोषतः- तथापतिबन्धकज्ञानावरणसाम्राज्यात् , ज्ञेयम् ।
नन्वेवं त्यज्यतां स्वप्रकाशाऽऽग्रहः, इन्द्रियाघभावादेव तदाऽग्रहणोपपत्तेः । न च सुषुप्त्यनुकूलमनःक्रिययाऽऽत्म-मनःसंयोगनाशकाले उत्पन्नेन सुषुप्तिसमकालोत्पत्तिकमनोयोगसहकृतेन परामर्शेन सुषुप्तिद्वितीयक्षणेऽनुमित्युत्पत्तिरिति वाच्यम् । तत्काले परामर्शोत्पत्ती मानाभावात् , तत्सामग्रीभूतव्याप्तिस्मृत्यादेः फलैककल्प्यत्वात् । अथ तत्काले आत्मादिमानसोत्पत्तिः । न च विशेषगुणोपधानेनैवाऽऽत्मनो भानमिति वाच्यम् : सविषयकप्रकारकात्ममानसत्वस्य मनोयोगादिजन्यतावच्छेदकत्वे गौर| वात् । न च त्वङ्-मनोयोगाभावात् तदनापत्तिः, तेस्य जन्यज्ञानत्वावच्छिन्नेऽहेतुत्वात् , अन्यथा रासनायुत्पत्तिकाले त्वाचोत्पत्तेः। o मानसत्वावच्छिन्नं प्रति तद्धेतुत्वे च त्वाचत्वावच्छिन्नं प्रति पृथकारणत्वे गौरवादिति चेत् । न, सुषुप्तौ जीवनयोनियत्नानभ्युपगमेन विजातीयमनःसंयोगस्यैवाऽभावात् । न च त्वविक्रयया त्वङ्-मनःसंयोगनाशे पुरीतक्रियया पुरीतद्-मनःसंयोगरूपसुषुप्त्युत्पत्ती प्राक्तनाऽऽत्म-मनःसंयोगनाशाभावात् तदा ज्ञानोत्पत्यापत्तिरिति वाच्यम् ; सर्वत्र मनःक्रिययैव सुषुप्तिस्वीकारात् । तदुक्तम्'यदा मनस्त्वचं परिहत्य' इत्यादिः इति चेत् । न, चेष्टाहेतुजीवनयोनियनस्य तदाऽवश्यं सत्वात् , नाड्यादिक्रिययाऽपि सुषुप्तिसंभवात 'यदा मनः' इत्याद्यभिधानस्य प्रायिकत्वात् , मनोयोगनिष्ठवेजात्यावच्छिबहेतोरदृष्टातिरिक्तस्याऽदर्शनात , रसना-मन:संयोगदशायां त्वङ्-मनःसंयोगस्याऽप्यावश्यकत्वात् । तदा त्वाचप्रतिबन्धकस्याऽरष्टस्य स्वीकारे चाक्षुषादिसामग्रीकाले मान
१ ख, ग, घ, च. 'गात् तदभावाना' । २ त्वङ् मनोयोगस्य ।
For Private Personal Use Only
Shww.jainelibrary.org
Jain Education