SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ COLORIORARPAPPAPA राजसमपरा बोधः खार्थावबोधक्षम इह निहताऽज्ञानदोषेण दृष्ट स्तस्मादस्माकमन्तर्विरचयति चमत्कारसारं विलासम् । येषामेषाऽपि वाणी मनसि न रमते स्वाऽऽग्रहग्रस्ततचा ___ssलोका लोकास्त एते प्रकृतिशठधियो हन्त ! हन्ताऽनुकम्प्याः ॥१॥ ८४ ॥ नन्वयमहंप्रत्ययो नाऽऽत्मनि साक्षी, नीलादेरिवाऽहंकारस्याऽपि बुद्धिविशेषाकारत्वात् , नीलादि-संविदोविवेकादर्शनेन भेदासिद्धः कर्मतया भानस्य पूर्वपूर्वभ्रान्तिनिमित्तकत्वात् , बायार्थ विनापि तदाकारस्य॑ रजतादिभ्रम एव दर्शनात् प्रागनुपलम्भेनाऽर्थाभावसिद्धेः, परोपलम्भे मानाभावात् । भावेऽपि स्व-परदृष्टनीलयोः स्व-परसुखादिवदेकत्वासिद्धः कचिदेव किश्चिदाकारनियमस्य च स्वमावस्थायामिव जागरावस्थायामपि नियतवासनामबोधेन संवेदननियमादुपपत्तेः, इत्याशङ्कायामाहन च बुद्धिविशेषोऽयमहंकारः प्रकल्प्यते। दानादिवुद्धिकालेऽपि तथाहंकारवेदनात् ॥८॥ न चायं- प्रकृतबुद्धिविषयोऽहङ्कारः, बुद्धिविशेषः- अर्थविनिर्मुक्तताहग्बुद्ध्याकाररूपः प्रकल्प्यते । कुतः १, इत्याहदानादिबुद्धिकालेऽपि तथा- 'अहं ददामि' इत्यादिप्रतिनियतोल्लेखेन, अहङ्कारवेदनात्- 'अहम्' इत्यनुभवात् : वासनाप्रभवत्वेPosन्यवासनाया अन्याकाराऽजनकत्वेन दानादिवासनाया अहंकारबुद्ध्यनुपपत्तेरित्याशयः । ननु युगपदुभयवासनाप्रबोधादुभ १ख. ग. घ. च. 'स्य जनादि' । २ ख, ग, घ, च. 'पः परिक', For Private Personal Use Only 2X5ww.jainelibrary.org Jain Education Interational
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy