________________
शास्त्रवार्ता।। ४८ ।।
भ्युपगमे धर्मादीनामिव तस्याऽयोग्यत्वाय मानससाक्षात्कारप्रतिबन्धकत्वकल्पने गौरवम्' इति नव्यमतं निरस्तम् । 'अयोग्यत्वस्य प्रतिबन्धकत्वेऽविश्रामात् स्वरूपायोग्यतयैव तवात्' इति यौक्तिकाः ।
यत्तु ‘अनुमित्यादौ सांकर्यात् प्रत्यक्षत्वं जातिर्न स्यात्' इत्युक्तम् ; तत् तथैव, ज्ञानजन्यतानवच्छेदकतद्विषयकत्वस्यैव प्रत्यक्षत्वात् । तत्खं च स्वावच्छिन्नजनकताश्रयज्ञानोपहितवचित्व विशिष्टज्ञानजन्यतावच्छेदकभिन्नत्वम्, अतो न किञ्चिदंशेऽलौकिके वह्निलौकिकमत्यक्षे वह्नयंशेऽप्रत्यक्षत्वम्, वह्निविषयत्वस्य धूमपरामर्शजन्यतावच्छेदकत्वादिति बोध्यम् । ज्ञानजन्यतावच्छेदकत्वोपलक्षितोद्देश्यताविधेयताद्यात्मकतद्विषयतान्यत्वं वा तदर्थः तेन 'नाऽपूर्वचैत्रत्वादिविशिष्टप्रत्यक्षे तद्विषयताकत्वावच्छिन्नजनकताश्रयज्ञानाप्रसिद्ध्या 'अहमेतत्क्षणवर्तिज्ञानवान्, तत्सामग्रीतः' इत्यनुमितावहं विषयकत्वादिनापि ज्ञानजन्यत्वाच्च तर्दशेऽप्रत्यक्षत्वम्' इति वदन्ति । वस्तुतः स्पष्टताख्यविषयतैव प्रत्यक्षत्वम्, अत एव 'पर्वतो वह्निमान् ' इत्यत्र पर्वतांशेऽपि स्पष्टतया प्रत्यक्षत्वम्, इति 'वहिं न साक्षात्करोमि' इतिवत् 'पर्वतं न साक्षात्करोमि' इति न धीः । अत एव च "स्पष्टं प्रत्यक्षम् " (प्रमाणनय ० २,१) इति प्रत्यक्षलक्षणं सूत्रितम्, विवेचितं चेदं ज्ञानार्णवे । अतश्च स्वसंविदितस्य प्रमाणान्तरत्वप्रसङ्गोऽप्यपास्तैः । न चैवं प्रत्यभिज्ञायास्तत्तांशे, स्मृतिरूपत्वेनेदंतांशे च प्रत्यक्षत्वेनोपपत्तौ स्मृतिपार्थक्येन परोक्षमध्ये परिगणनं विरुध्येतेति वाच्यम्, विलक्षणक्षयोपशमजन्यत्वेन तस्याः पृथक्परिगणनादिति युक्तमुत्पश्यामः । अधिकं न्यायालोके ।
१ तदा ज्ञानजन्यतानवच्छेदकतद्विषयकत्वम् । २ स्पष्टत्वस्य प्रत्यक्षलक्षणत्वात् । ३ प्रत्यक्ष एव स्वसंवेदनस्याऽन्तर्भावादित्यर्थः । ४ स्मृतेः ।
Jain Education International
For Private & Personal Use Only
सटीकः ।
॥ ४८ ॥
www.jainelibrary.org