________________
• यच्चोक्तम्- 'ज्ञानस्य पूर्वमनुपस्थितत्वात् कथं प्रकारत्वम् ?" इति । तन्न, तस्याऽऽत्मवित्तिवेत्वात्, 'अहं सुखी' इत्यस्यापि 'सुखं साक्षात्करोमि' इत्याकारत्वात्, अनभ्यासादिदोषेण तथाऽनभिलापात् । यदपि 'प्रत्यक्षविषयतायामिन्द्रियसंनिकर्ष एव नियामक:' इत्युक्तम् ; तदपि न, अलौकिकप्रत्यक्षविषयतायां व्यभिचारात् । न च लौकिकत्वं विषयताविशेषणम्, दोषविशेषप्रभवप्रत्यक्षविषयतायां व्यभिचारात् ज्ञाने पराभिमतलौकिकविषयताभावस्येष्टत्वाच्च । 'साक्षात् करोमि' इतिधीनि यामकस्पष्टताख्यविषयतायां च संबन्धविशेषेण विषयनिष्ठस्य प्रत्यक्षप्रतिबन्धकज्ञानावरणापगमस्य, शक्तिविशेषस्य वा नियामकत्वमिति न किञ्चिदनुपपन्नम् । अभेदे कथं विषयत्वम् १, इति चेत् । यथा घटाभावे घटाभावविशेषणत्वम् । किं तत् ?, इति चेत् । स्वभावविशेष एव । अनिर्वचनात् तदसिद्धिरिति चेत् । न तस्याऽख्यातुमशक्यत्वेऽपि प्रत्याख्यातुमशक्यत्वात् ।
यत्तु 'स्वव्यवहारशक्तत्वमेव स्वविषयत्वम्' इति । तन्न, आत्मन्यतिप्रसङ्गात् ज्ञानपददाने चेच्छायनुपसंग्रहात् ; शक्तेः पदार्थान्तरत्वेनाऽऽत्माश्रयः, द्वारेऽपि तस्या अनन्यथासिद्धनियतपूर्ववृत्तित्वज्ञानव्यङ्गत्वेनाऽन्योन्याश्रयाच्चेति विभावनीयम् । यदपि 'प्रत्यक्षाजनकस्य प्रत्यक्षाविषयत्वं स्यात्' इत्युक्तम् ; तदपीश्वरादिप्रत्यक्षविषये गगनादौ व्यभिचारग्रस्तम् । 'लौकिकविषयत्वेनेन्द्रियग्राह्यत्वाज्ज्ञानस्य न स्वप्रकाशत्वम्' इत्यपि रिक्तयुक्तम्, शक्तिविशेषेणैवेन्द्रियग्राह्यत्वात्, लौकिक विषयत्वेनाश्वस्यैवाऽतीन्द्रिय आपाद्यत्वात् ; शक्तिविशेषस्यैव तन्नियामकत्वे तेन रूपेणाऽन्यथासिद्धेश्व । एतेन 'ज्ञानमानसान१ तदा स्वभावविशेषरामर्शः । २ खण्डयितुम् । ३ कार्याचन्यथानुपपत्तेस्तत्सिद्धै सिद्धहस्तत्वादिति भावः । ४ शक्तेः । ५ रिक्तं तुच्छम् । ६ तच्छब्द इन्द्रियग्राह्यानुकर्षकः ।
तैवात्,
Jain Educationmational
For Private & Personal Use Only
www.jainelibrary.org