________________
सटीकः ।
शास्त्रवार्ता-- यनिरूप्यं हि ज्ञानं, न तु विषयपरम्परानिरूप्यम्' इत्यादिना । अधिकविषयकत्वेऽपि च व्यवसायस्य प्रवृत्तिजनकत्वमवि- ॥४७॥
रुद्धम् , इष्टतावच्छेदकप्रवृत्तिविषयवैशिष्ट्यावगाहित्वेन प्रवृत्तिहेतुत्वात् । न चात्र 'प्रमेयम्' इति ज्ञानात् प्रवृत्यापत्तिः, इष्टतावच्छेदके तद्भिननिष्ठधर्माप्रकारकत्वविशेषणात् । न चेष्टतावच्छेदकमकारकज्ञानस्य मुख्यविशेष्यतया प्रवृत्तिहेतुत्वम् ; 'तद् रजतम् , इदं द्रव्यम्' इति ज्ञानात् प्रवृत्तिवारणाय प्रवृत्तिविषयविशेष्यकत्वावच्छेदेनेष्टतावच्छेदकमकारकत्वस्य वाच्यत्वे इष्टतावच्छेदकविशेष्यकत्वावच्छेदेन प्रवृत्तिविषयप्रकारकत्वेनापि हेतुतायां विनिगमनाविरहात् , उभयबुद्ध्योरुक्तंनैकरूपेण हेतुत्वौचित्यात् ।
यत्तु 'वहिव्याप्यधृमवत्पर्वतवान् देशः' इति परामर्शात् 'पर्वतो वह्निमान्' इत्यनुमितेरनुदयाद् बहिव्याप्यधुमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नमुख्यविशेष्यताकनिश्चयत्वेनाऽनुमितिहेतुत्वात् , स्वप्रकाशनये तु पर्वतस्य ज्ञानविशेष्यत्वात् तदतिरिक्तविशेष्यतानिरूपितप्रकारतानात्मकत्व-मुख्यत्वनिवेशे गौरवम् ' इति । तन्न, स्वप्रकाश्यस्य व्यवसाया-ऽनुग्यवसायोभयाकारत्वेऽप्यविरोधात् , तव ज्ञानमानसादौ वह्नयनुमितिसामग्रयादिप्रतिबन्धकत्वकल्पने महागौरवात् , घटचाक्षुषे सति चाक्षुषसामग्रयां सत्यां तदनुव्यवसायानुपपत्तेच; तदानीं चक्षुर्मनोयोगादिविषमकल्पनायां मानाभावात् , घटदर्शनोत्तरमाहत्यैव पटदर्शनात् , तदा चक्षुर्मनोयोगान्तरादिकल्पनयाऽतिगौरवात् । न च ममापि स्वविषयकत्वनियामकहेतुकल्पने गौरवम् , आलोकस्य प्रत्यक्षे आलोकान्तरानपेक्षत्ववत् स्वभावत एव ज्ञानस्य स्वसंविदितत्वात् । अस्तु वा स्व-परप्रकाशनशक्तिभेदः, तथापि न गौरवम् , फलमुखत्वात् ।
नैयायिकस्य । २ स्याद्वादवादिनः ।
॥४७॥
Jain Education in
a
For Private & Personel Use Only
Palwww.jainelibrary.org