SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ज्ञानस्य मनोलक्षणेन्द्रियसंनिकों न युज्यते, ततः कथं प्राचीनज्ञाने मानसप्रत्यक्षवार्तापि ? ' इति । 'व्यवसायनाशक्षणोत्पन्नव्यवसायान्तरे ज्ञानत्वविशिष्टबुद्धिः' इत्यप्यत एवं निरस्तम् , तद्धेतोश्चक्षुःसंनिकर्षादेस्तदानीं नियतसंनिधिकत्वाभावात् , अनुमित्युत्तरज्ञानत्वनिर्विकल्पोत्तरमनुमित्ययोगात् , अन्यत्रानुमितित्वाभावात् 'अनुमिनोमि' इत्यनुपपत्तेः, पूर्वव्यवसायविशेष्यकज्ञानस्य कथमप्यनुपपत्तेश्च । एतेन 'ज्ञानं ज्ञानत्वं च निर्विकल्पके भासते, ततो ज्ञानत्ववैशिष्टयं ज्ञाने, ज्ञानवैशिष्टयं चात्मनि भासते, इति विशेष्ये विशेषणं, तत्र च विशेषणम् , इति रीत्या ज्ञानप्रत्यक्षत्वम् ' इति निरस्तम् ; 'ज्ञानं घटीयं नवा? इति संदेहेऽपि तद्बुद्धिप्रसङ्गाच्च । यत्तु 'ज्ञानं ज्ञानत्वं च विशिष्टज्ञानविषय एव, अनुव्यवसायस्य विषयरूपविशेषणविषयकव्यवसायसाध्यत्वेन विशिष्टज्ञानसामग्रीसत्त्वाज्ज्ञानत्वमपि तत्र भासते, सामग्रीसत्त्वादशे तत् सप्रकारकं निष्पकारकं चेति नरसिंहाकारं तत्रैव विशिष्ट ज्ञानत्ववैशिष्ट्यं च भासते, अनुमित्यादौ च न तथाऽनुव्यवसाये, अनुमितित्वाभावात् ' इति, 'वस्तुतस्तु-' इति कृत्वा चिन्तामणिकृतोक्तम् । तदसत्, सार्वत्रिकप्रकारं विना काचित्कप्रकाराभिधानस्य प्रयासमात्रत्वात् , अभावप्रत्यक्षस्य घटत्वाधन्यतमविशिष्टविषयकत्वनियमवज्ज्ञानप्रत्यक्षे तन्नियमाभावात् , 'अहं सुखी' इतिवत् 'अहं ज्ञानवान्' इति विषयविनिर्मुक्तमतीतेः सार्वजनीनत्वात् , संनिकर्षकार्यतायां विषयान्तर्भावे गौरवात् , ज्ञाने नृसिंहाकारतोपगमे विषयेऽपि तदभ्युपगमौचित्येन स्याद्वादाऽऽपाताच्च । नृसिंहाकारज्ञाने ज्ञानत्व-घटत्वप्रकारत्वोभयाश्रयज्ञानवैशिष्ट्यधीन स्यात् , इति प्रसञ्जनं तु समाहित मिश्रेण- 'विष BE Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy