________________
शास्त्रवार्ता -
॥ ४६ ॥
Jain Education
योग्यत्वाद् भासते, करणाद्यंशे त्वयोग्यत्वाद् न साक्षास्वमिति किमनुपपन्नम् ? । परप्रकाशे च ज्ञानस्य प्रत्यक्षानुपपत्तिः, अनुव्यवसायक्षणे व्यवसायाभावात् । न च ज्ञानत्वनिर्विकल्पकजन्यज्ञानक्षणे व्यवसायस्याभावेऽपि पूर्वं तत्सच्वात् तदा तत्प्रत्यक्षं, ततो विशेषणज्ञानादात्मनि ज्ञानविशिष्टधीः, विशेषणं च न विशिष्टप्रत्ययहेतुः, तत्तां विनापि तद्बुद्धेः प्रत्यभिज्ञादर्शनादिति वाच्यम्, प्रत्यक्षे विषयस्य स्वसमयवृत्तित्वेनैव हेतुत्वात्, अन्यथा विनश्यदवस्थघट-चक्षुः संनिकर्षाद् घटनाशक्षणे घटप्रत्यक्षप्रसङ्गात्, ज्ञानस्यातीतत्वेन 'जानामि' इति वर्तमानत्वज्ञानानुपपत्तेश्च । न च वर्तमानत्वेन स्थूल उपाधिर्भासते न तु क्षणः, तस्याsतीन्द्रियत्वादिति वाच्यम्, संसर्गशब्दादितः क्षणस्याऽपि सुज्ञानत्वात् ।
किञ्च, 'अहं घटज्ञानवान्' इतिवद् 'मयि घटज्ञानम्' इत्यप्यनुभवो नेच्छामात्रेणापह्नोतुं शक्यते; तत्र च व्यवसायस्य विशेष्यस्याऽसत्त्वात् कथं तत्प्रत्यक्षम् । एतेन 'ज्ञानत्वनिर्विकल्पकजन्यज्ञाने घटस्याप्युपनीतस्य भानात् तत्र वर्तमानत्वभानं सूपपदम्' इत्युक्तावपि न निस्तारः, व्यवसायप्रत्यक्षानुपपादनात् 'घटं पश्यामि' इति प्रयोगानुपपत्तेश्च । एतेन 'यदि च जात्यतिरिक्तस्य किञ्चिद्धर्मप्रकारेण भाननियमाज्ज्ञानविशिष्टबुद्धौ ज्ञानविशेष्यकज्ञानमेव हेतु:, तदा निर्विकल्पकोत्तरमपि ज्ञानम्, इति ज्ञानग्रहे 'जानामि' इति ज्ञानांशेऽलौकिके प्रत्यक्षं सूपपदम् ' इत्यपास्तम् ; घटचाक्षुषांशेऽलौकिकात् ततः पश्यामि' इत्यप्रयोगात् ; 'पश्यामि' इति विलक्षणविषयतयाऽनुव्यवसायविलक्षणविषयतया चाक्षुषस्य नियामकत्वेन तदभावे तदनुपपत्तेः । न च चाक्षुषत्वांशभ्रम जनकदोषाद् निद्रायाम् 'आकाशं पश्यामि' इत्यादाविवोपपत्तिः, 'घटं पश्यामि' इत्यत्र सर्वाशप्रमाया एवानुभवात् । तदिदमुक्तं स्याद्वादरत्नाकरे- 'किश्व, इन्द्रियजं प्रत्यक्ष संनिकृष्टे विषये प्रवर्तते, अतीतक्षणवर्तिनश्च
ational
For Private & Personal Use Only
सटीकः ।
॥ ४६ ॥
www.jainelibrary.org