________________
आत्मनात्मग्रहोऽप्यत्र तथानुभवसिद्धितः। तस्यैव तत्स्वभावत्वान्न च युक्त्या नयुज्यते॥४॥
. आत्मनाऽऽत्मग्रहोऽपि कर्तृ-कर्म-क्रियागोचरत्वमपि, अत्र प्रकृताहंमत्यये, तथानुभवसिद्धितः स्वसंविदितत्वानुभवसिद्ध्या, तस्यैव- आत्मन एव, तत्स्वभावत्वात्- कर्तृत्वादिकिर्मीरितशक्तियोगित्वात् । न च युक्त्या तर्केण, न युज्यते न साध्यते- अपितु साध्यत एवेत्यर्थः।
यथा कथायां प्रविशन् परस्य नैयायिकः कारयति प्रतीक्षाम् ।
तथा यथार्थाऽऽगमबद्धबुद्धिर्दास्यामि नाऽस्यापि किमेष शिक्षाम् ॥१॥ तथाहि- 'जानामि' इति सार्वलौकिकं ज्ञानमेव पूर्वापरज्ञानकल्पनागौरवसहकृतं कर्तृ-कर्म-क्रियावगाहि सत् स्वविषयत्वे प्रमाणम् , 'ज्ञानस्येदं जानामि, इदं ज्ञानं जानामि' इत्युभयाकारत्वात् । एतेन 'स्वविषयत्वे सिद्धे गौरवसहकृतं ज्ञानगोचरताया ग्राहक प्रत्यक्षं स्वप्रकाशतायां प्रमाणम् , तेन च मानेन तस्य स्वविषयतासिद्धिः, इत्यन्योन्याश्रयः' इत्यपास्तम् । ज्ञानविषयत्वेनाऽनुभूयमानस्य लाघवात् प्राच्यज्ञानक्यसिद्धौ स्वप्रकाशतासिद्धेः, कालभेदेनोभयानुभवस्य शपथपत्यायनीयत्वात् । नन्वेवं घटज्ञानज्ञानाद्यनन्ताकारत्वं स्यादिति चेत् । न, घटज्ञानज्ञानादिविषयताया अपि वस्तुतो घटज्ञानविषयताऽनतिरेकात् , अभिलापभेदस्य विवक्षाधीनत्वात् । तत्र चाश्रयत्वरूपं कर्तृत्वं, विषयत्वरूपं कर्मत्वं, विशेषणत्वरूपं क्रियात्वं च
किर्मीरितं शवलितम् । २ अस्य नैयायिकस्य, 'स्वसंवेदनवादे' इति शेषः ।
Jain Educat
For Private & Personel Use Only
www.jainelibrary.org