SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- सटीकः। ॥४५॥ न्यजन्यप्रत्यक्षविषये व्यभिचारवारणायाऽनागतत्वस्थानेऽजनकत्वस्य निवेशावश्यकत्वे प्रत्यासत्यादिभागमपहायाऽजनकविष- यसाक्षात्कारान्यप्रत्यक्षविषयताया एव प्रत्यक्षजनकत्वव्याप्यत्वकल्पने स्वस्याजनकत्वेन स्वविषयतायां जनकत्वस्याऽनियामकत्वेन स्वविषयता न बाधिता' इत्युक्तावपि न क्षतिः । किञ्च, लौकिकविषयत्वेन लाघवादिन्द्रिययोग्यत्वाज्ज्ञानस्य परिशेषाद् मनोग्राह्यत्वसिद्धौ न स्वप्रकाशत्वम् । किञ्च, एवमनुमित्यादौ सांकर्यात् प्रत्यक्षत्वं जातिन स्यात् । न च स्वविषयत्वे ज्ञानानपेक्षत्वं तत्त्वम् , न तु जातिरिति वाच्यम् ; एकत्र ज्ञानापेक्षा-ऽनपेक्षयोर्विरोधात् । न च भ्रमे धर्मविषयकत्व-धर्मिविषयकत्वावच्छेदभेदेन दोषापेक्षा-ऽनपेक्षावदनुमित्यादावपि बयादिविषयकत्व-स्वविषयकत्वावच्छेदभेदेन ज्ञानापेक्षा-ऽनपेक्षोपपत्तिरिति वाच्यम् । दोषापेक्षे भ्रमे तैदनपेक्षाऽनभ्युपगमात , धयंशे स्वभावादेवाऽभ्रमत्वात् । किञ्च, ज्ञानजन्यतानवच्छेदकं यत्किश्चिजन्यतावच्छेदकं यद्विषयत्वं, तदवच्छेदेन तस्य प्रत्यक्षत्वम् , इति स्वविषयत्वांशे | न तथात्वम् , ज्ञानसामग्रथा ज्ञानत्वस्यैव जन्यतावच्छेदकत्वात् , विशेषसामग्रयां च तस्याऽतिप्रसक्ततयैवाऽनवच्छेदकत्वात् । न च वित्तेरवश्यवेद्यत्वात् स्वप्रकाशत्वम् , नो चेत्, या वित्तिर्न वेद्यते तदधीनसत्त्वस्य विषयपर्यन्तस्याऽसत्त्वं स्यादिति वाच्यम् । सर्वासां वित्तीनां ज्ञानज्ञानत्वेनाऽवश्यवेद्यत्वात् । परप्रकाशेऽनवस्थानात् स्वप्रकाशसिद्धिरित्यपि न युक्तम् , स्वप्रकाशत्वस्याऽपि परिशेषानुमेयतया तदनुमितिवप्रकाशताया अप्यनुमानान्तरलभ्यतयाऽनवस्थासाम्यात्, विषयान्तरसंचारादिना प्रतिबन्धेन तद्भङ्गस्याऽप्युभयत्र साम्यात् । इत्यत आह १ प्रत्यक्षत्वम् । २ तस्य दोषस्य । ३ क, 'तद्वन्धस्या' । For Private Personal Use Only Jain Education International www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy