________________
किञ्च, 'घटमहं जानामि' इति ज्ञाने क्रियायाः कृतेर्वा समवायित्वलक्षणमात्मनः कर्तृत्वम् , परसमवेतक्रियाफलशालित्वं करणव्यापारविषयत्वं वा विषयस्य कर्मत्वम् , धात्वर्थत्वं कृतिजन्यत्वं वा ज्ञानस्य क्रियात्वमयोग्यत्वाद् न भासत इति न तादृशत्रिपुटीप्रत्यक्षात् स्वसंविदितत्वसिद्धिः, अन्यथा 'घटं चक्षुषा पश्यामि' इति व्यवहारात् करणविषयत्वमपि सिध्येत् । किश्च, अर्थविषयकत्वेनैव ज्ञानस्य प्रवर्तकत्वम् , न तु स्वविषयत्वेनापि, गौरवात् । तथा च 'अर्थमात्रविषयक एवं व्यवसायः' इत्यभ्युपगमः श्रेयान् ।
अपि च, 'अहमिदं जानामि' इत्यत्रेदंत्वविशिष्टज्ञानवैशिष्ट्यमात्मनि भासते । न च स्वप्रकाशे तदुपपत्तिः, ज्ञानस्य पूर्व| मज्ञातत्वेन प्रकारत्वानुपपत्तेः । न चाऽभावत्वाभानेऽप्यभावत्वविशिष्टबोधात् तत्र व्यभिचारवारणाय समानवित्तिवेद्यभिन्न विशेपणज्ञानत्वेन विशिष्टबुद्धौ हेतुत्वाद् न दोष इति वाच्यम्; यद्धि येन विना न भासते तत् तत्समानवित्तिवेद्यम्- तद्ग्रहसामग्रीनियतग्रहसामग्रीकमित्यर्थः । न च ज्ञानाभाने आत्माभानमित्यस्ति, तदभानेऽपि 'अहं सुखी' इति भानस्य सर्वसिद्धत्वात् ।
अपिच, प्रत्यक्षविषयतायामिन्द्रियसंनिकर्षस्य नियामकत्वात् कथं तदनाश्रयस्य स्वस्य प्रत्यक्षत्वम् ?, कथं वा प्रत्यक्षाजनकस्य प्रत्यक्षविषयत्वम् , प्रत्यक्षविषयतायास्तजनकत्वव्याप्तत्वात् ? । न च संस्कार-स्मृत्याद्युपनीततत्तादौ व्यभिचारः, अनागतगोचरसाक्षात्कारजनकप्रत्यासत्यजन्यप्रत्यक्षविषयतायास्तथात्वात् । वस्तुतो लौकिकप्रत्यक्षविषयतायाः प्रत्यक्षजनकस्वव्याप्तत्वात् , तदजनके स्वस्मिल्लौकिकसाक्षात्कारविषयता न स्यादिति द्रष्टव्यम् । तेनाऽनुपदोक्तनियमे 'विद्यमानत्वसामा
१ तादशी कर्तृत्व-कर्मत्व-क्रियास्वरूवा त्रिपुटी । २ वित्तिानम् । ३ तच्छन्दः प्रत्यक्षानुकर्षकः । ४ प्रत्यक्षजनकत्वव्याप्तत्वात् ।
Jain Education
Bonal
For Private Personal Use Only
ww.jainelibrary.org